________________
पाद - २, सूत्र - ६३ - ६७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
तनः क्ये ।। ४. २. ६३॥
तनोतेरन्तस्य क्य परे आकारो वा भवति । तायते तन्यते । क्य इति किम् ? तन्तन्यते ।। ६३ ।
[ १२५
तौ सनस्तिक ॥। ४. २. ६४ ॥
नित्येतस्य तकि प्रत्यये परे तौ लुगाकारौ वा भवतः । वणू, सतिः, सातिः, सन्तिः, षण् भक्तौ सतिः, सातिः सान्ति: । 'अहन्पश्वम-' ( ४- १ - १०७ ) इत्यादिना दीर्घः ।। ६४ ।।
६५ ॥
वन्याङ्पञ्चमस्य ।। ४. २.
धातोः पश्वमस्य वनि प्रत्यये परे आकारो भवति । आङिति आकारान्तरप्रश्लेषादननुनासिकोऽनुनासिकश्चायमादेशः । अन्यथा 'लि लौ" ( १-३-६६ ) इति ज्ञापकादननुनासिक एव स्यात् ।
जन् विजावा, खन् विखावा, क्रम् दधिक्रावा, गम् अग्रेगावा, घुण् ध्वावा, घूर्ण घूरावा, ओण अवावा, इव व्याप्तौ च । वनि-'य्वोः खय्व्यञ्जने लुक्' (४-४- १२२ ) इति वलोपे नकारस्थात्वे यावा । पुनराग्रहणं ताविति नवेति च निवृत्त्यर्थम् । ङित्करणं sardarat गुणनिषेधार्थम् ।। ६५ ।।
न्या० स० - वन्याङ्о- आकारान्तरप्रश्लेषादिति आश्चाऽसावाङ च यद्वा आश्च आश्च तयोरनुबन्धीङ इति ।
अपाच्चायश्चिः क्तौ ॥ ४. २. ६६ ।।
अपपूर्वस्य चायतेः क्तिप्रत्यये चिरादेशो भवति । अपचितिः ||६६ ||
दो हद क्तयोश्च ।। ४. २. ६७ ॥
ह्लादतेः क्तक्तवत्वोः क्तौ च परतो ह्लद् आदेशो भवति । ह्लन्न, लन्नवान्, प्रह्ननः प्रह्लन्नवान्, ह्नत्तिः, प्रह्नत्तिः । क्तयोश्चेति किम् ? ह्लादित्वा ॥६७॥
ऋल्वादेरेषां तो नोऽप्रः ।। ४. २. ६८ ॥
पूर्वाजतादृकारान्ताद्धातोर्वादिभ्यश्च परेषामेषां क्तिक्तक्तवतूनां तकारस्य नकार
प्रादेशो भवति ।
तृ-तीणिः तीर्णः तीर्णवान्, कृ-कोणिः, कीर्णः कीर्णवान्, गृ-गीणिः, गीर्णः, गीर्णवान्, ल्वादि- लूनि:, लून, लूनवान्, धूनिः धून, धूनवान्, लीनि:, लीनः, लीनवान् ।