________________
१२६ ]
बृहवृत्ति-लघुन्याससंवलिते
[ पाद-२, सूत्र-६९-७०
अप्र इति किम् ? पूतिः । पूणिरित्यपि कश्चित् ,-पूर्तः, पूर्तवान् । स्वादिषु ये ऋकारान्ता स्तृदृप्रभृतयस्तेषामृग्रहणेनैव सिद्ध तत्र पाठः प्वादिकार्यार्थः । काद्यन्तर्गणो ल्वादिः ॥६८।।
न्या० स०-ऋल्वादे०-पूर्णिरित्यपोति-ते ह्य त्तरसूत्रेऽप्र इति कुर्वन्ति, तत्र च सूत्रे क्तयोरेव नत्वनिषेधः, क्तौ तु 'ऋल्वादे:' ४-२-६८ इति भवत्येव । ननु ऋकारान्तानामिरादेशे रेफान्तत्वादुत्तरेण भविष्यति किं ऋग्रहणेन ? सत्यं, उत्तरेण क्तयोर्भवति, अनेन तु क्तिक्तक्तवतुषु, अथ क्त्यर्थं ऋतां क्तावित्युच्येत, तर्हि ऋतां क्तावेव स्यात् क्तयोस्तूत्तरेणापि न स्यात् ।
रदादमूर्च्छमदः क्तयोर्दस्य च ॥ ४. २. ६१ ॥
मूच्छिमदिवजितानेफदकारान्ताद्धातोः परस्य क्तयोः तक्तवत्वोस्तकारस्य तत्संनियोगे धातुदकारस्य च नकारो भवति ।
पूरै-पूर्ण, पूर्णवान् , गुरे-पूर्णः, गूर्णवान् , मिद्-भिन्नः, भिन्नवान् , छिद्-छिन्नः, छिन्नवान् । रदादिति किम् ? चितः, चितवान् । अमूर्च्छमद इति किम् ? मूर्तः, मूर्तवान् , मत्तः, मत्तवान् । कृतस्यापत्यं कातिरित्यत्र * 'असिद्धं बहिरङ्गमन्तरङ्गे' * इति न भवति । क्तयोरिति किम् ? पूर्तिः, भित्तिः । कथं चूणिः ? चुरेरौणादिको णिः ।
रदस्येति किम् ? चरितम् , उदितम् । इटा व्यवधाने न स्यात् । कृतः कृतवानि- . त्यत्र तु वर्णैकदेशानां वर्णग्रहणेनाग्रहणान्न भवति । रेफात्परेण स्वरभागेण व्यवधानाद्वा, ऋकारस्य हि मध्येऽर्धमात्रो रेफः अग्रेपश्चाच्च तुरीयः स्वरभाग: प्रतिज्ञायते । भिन्नवद्भ्यामित्यत्र प्रत्ययदकारस्य परेऽसत्त्वात् सूत्रे चाश्रुतत्वान्न भवति । कयं चीर्णः चोर्णवानिति ? च इति धात्वन्तरं चरतिसमानार्थम् क्तक्तवतुविषयमामनन्ति ।।६९॥
___ न्या. स०- रदादमूर्छ०-प्रसिद्धं बहिरङ्गमिति-आरूपमित्यर्थः । वर्णग्रहणेनाग्रहणादिति-ऋकारलक्षणो वर्णः तस्य एकदेशो रेफो वर्णग्रहणेन न गृह्यते, कस्मात् ? असन्निधानात , यतो दकारः स्वतन्त्र एव वर्णोऽत्राऽस्त्यऽतो रेफोऽपि स्वतन्त्र एव ग्राह्यः ।
प्रतिज्ञायते इति-पूर्वाचार्यनिश्चीयते न तु लेखितु शक्यते ।
प्रत्ययदकारस्येति- 'धुटस्तृतीयः' २-१-७६ इति विहितस्य । सूत्रे चाऽश्रुतत्वादिति-रदादिति धातुदकारस्यैव भणनादित्यर्थः ।
तक्तवतुविषयमिति-तेन चर्यते स्मेति धात्वन्तरेण वाक्यम् । सूयत्याद्योदितः ॥ ४. २. ७० ॥
सूयत्यादिभ्यो नषभ्यो धातुभ्य ओकार इद्येषां तेभ्यश्च परस्य क्तयोस्तकारस्य नकारादेशो भवति ।
पूङौच-सूनः सूनवान् , दूच्-दूनः, दूनवान् , दोच्-दीनः, दीनवान् , धीच्धोनः, धोनवान् , मीच्-मीनः, मोनवान् , रोच्-रोणः, रीणवान् , लींच्-लोनः, लोनवान , डोच्-डीनः, डोनवान् , व्रीच्-वीणः, वीणवान् इति सूयत्यादयः । ओदित्