________________
१२४ ]
बृहद्वृत्ति लघुन्यास संवलिते
न तिकि दीर्घश्च ॥ ४. २. ५१ ॥
rai fafe प्रत्यये लुग् दीर्घश्व न भवति । यन्तिः, रन्तिः, नन्तिः, गन्ति:, हन्तिः, मन्तिः, वन्ति:, तन्तिः । क्षणिति लाक्षणिकोऽयं णकारः तेन क्षन्तिरिति भवति । श्रन्यस्त्वोपदेशिकोऽयमिति मन्यते तन्मते क्षष्टिः । अन्तलोपे प्रतिषिद्धे 'श्रहन्पञ्चम' - (४-१-१०७ ) इत्यादिना दीर्घत्वं प्राप्तं तदपि प्रतिषिध्यते । एषामित्येव, शान्तिर्भगवान् । तिकीति किम् ? यतिः, रतिः, ततिः ॥ ५९ ॥
[ पाद २, सूत्र - ५९-६२
न्या० स०-न तिकि० - तेनक्षन्तिरितीति- नान्त प्रकृतेर्णत्वबाधनाय म्नामिति बहुवचनात् प्रथममेव नकारः, म्नामिति बहुवचनाण्णत्वं कृतमपि वर्गान्त कर्त्तव्ये निवर्त्तते वा, अत्र सूत्रे यमादयो गमादयश्च गृह्यन्ते, न त्वनन्तरसूत्रोक्ताः द्वयोरपि प्राप्तेः संभवात् । .
आः खनि सनि जनः ॥ ४. २.६० ।।
खनादीनां घुडादौ क्ङिति प्रत्यये परेऽन्तस्याकारादेशो भवति ।
खातः, खातवान्, खात्वा खातिः सन् - 'बणूयी दाने' वनपण भक्तौ वा । सातः, सातवान्, सात्वा, सातिः, जन्-जातः, जातवान्, जात्वा, जातिः । विङतीत्येव - चंखन्ति, संसन्ति, जंजन्ति ॥ ६०॥
न्या० स०-प्राः खनि-खात इति खायते स्म खन्यते स्मेति वा 'क्त' ५-१-१७४ इति वा क्ते 'वेटोऽपतः ४-४-६२ इडभावः । सात्वेति षणूयी दान इत्यस्यैवायं प्रयोगः, पण भक्तावित्यस्य सनित्वैव । चखन्तीत्यादि - तसि च चङ्खातः संसात: जंजातः सनिसिस निषतीति, सनोतेः सनतेर्वा 'णिस्तोरेव' २ - ३ - ३७ इति नियमान्न षत्वम् ।
सनि ॥ ४. २. ६१ ॥
खनादीनां धुडादौ सनि परतोऽन्तस्यात्वं भवति । सिषासति खनिजनोरिटा भवितव्यमिति घुडादिः सन्न भवति । घुटीत्येव - सिसनिषति - 'इवृध' - ( ४-४-४९ ) इत्यादिना वेट् । षिङतीत्यसंभवादिह न संबध्यते ॥ ६१ ॥
ये नवा ॥ ४. २. ६२ ॥
खनादीनां ये क्ङिति प्रत्ययेऽन्तस्याकारो वा भवति । खायते, खन्यते, चाखायते, चंखन्यते, प्रखाय, प्रखन्य, सायते सभ्यते, सासायते, संसन्यते, प्रसाय, प्रसन्य, प्रसत्य, जायते, जन्यते, जाजायते, जंजन्यते, प्रजाय, प्रजन्य । श्ये तु 'जा ज्ञाजनोऽत्यादी' ( ४ - २ - १४ ) इति नित्यं जादेशः जायते ।
य इत्यकारान्त निर्देशाविह न भवति । खन्यात्, सन्यात्- अन्यथा योति क्रियेत । केचिदत्रापोच्छन्ति खायात्, सायात् । विङतीत्येव - सान्यम्, जन्यम् ॥६२॥
न्या स०- ये नवा - प्रसायेत्युभयोः प्रसन्येति भक्त्यर्थस्य प्रसत्येति तु दानार्थस्य तनादित्वेन न लोपात् ।