________________
पाद-२, सूत्र-५६-५८ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[१२३
मन्यः
यमिरमिनमिगमिह निमनीनां वनतेस्तनादीनां च धुडादौ विङति प्रत्यये परऽन्तस्य लुग्भवति ।
यदः, यतवान् , यत्वा, यतिः, रतः, रतवान् , रत्वा, रतिः, नतः, नतवान् , नत्वा, नतिः, गतः, गतवान् गत्वा, गतिः, हतः, हतवान् , हत्वा, हतिः, आहत, आहथाः । मनीति
वात् । मतः, मतवान , मत्वा, मतिः वतिः. क्तिः. तिकि तु प्रतिषेधं वक्ष्यति । तनादि-तनयी-ततः, ततवान् , तत्वा, ततिः, सनोतेरात्वं वक्ष्यति । क्षणूग्-क्षतः, क्षतवान् , क्षत्वा क्षतिः, ऋणूयी-ऋतः, ऋतवान् , तृणूयो-तृतः, तृतवान् , घृणूयो-घृतः, घृतवान् , वनूयि-वतः, वतवान् , मनूयि-मतः, मतवान् ।
एषामिति किम् ? शान्तः , दान्तः । तिवगणनिर्देशाद्यङ्लुपि न भवति । वान्तः, तंतान्तः । अन्यत्र भवति, यंयतः, रंरतः, नंनत , जंगतः, जंघतः, मंमतः । धुटोति किम् ? यम्यते. यंयम्यते । विङतीति किम ? यन्ता, रन्ता ॥५५।।
- न्या० स०-यमिरमि०-हतिरिति-सातिहेति' ५-३-९४ इति बाधनाथं थ्रवादिभ्यः क्ति: । वतिरिति-क्तक्त वतू न दर्शितौ इट् प्राप्तः, क्तौ तु नियमान्नेट । जंघत इति-कुटिलं हतः, यङलुप् द्वित्वं मुरन्तः, 'अहिहनः' ४-१-३४ इति घः, गत्यर्थत्वाद् घ्नीनं भवति, केचित्तु यङलुपि घ्नीं नेच्छन्ति तन्मते वधार्थोपि ।
यपि ॥ ४. २. ५६ ॥
एषां धातूनामन्तस्य यपि परे लुग्भवति । 'वामः' (४-२-५७) इति वचनान्नान्तानामेवायं विधिः । हन्-प्रहत्य, मन्-प्रमत्य, वनति-प्रवत्य, तनादि-प्रतत्य, प्रसत्य, प्रक्षत्य । यपीति किम् ? हन्यते, वन्यते, तन्यते ॥५६॥
वामः ॥ ४.२.५७॥
एषां मकारान्तानां यपि प्रत्ययेऽन्तस्य वा लुग्भवति । प्रयत्य, प्रयम्य, विरत्य, विरम्य, प्रणत्य, प्रणम्य, आगत्य, प्रागम्य । एषामित्येव,-उपशम्य ॥५७॥
गमां क्यो । ४. २. ५८ ॥
एषां गमादीनां यथादर्शनं क्वौ विडति प्रत्ययेऽन्तस्य लुग्भवति । बहुवचनं प्रयोगानुसरणार्थम् ।
जनं गच्छति जनंगत् , कलिङ्गगत , यम्-संयत् , वियत् , तन्-परीतव, उपातत् , सन् सुसद, मन्-सुमन , वन्- सुवद , क्षण-सुक्षत् , विक्षत् । अग्रेगूरित्यौणादिको डूः ।।५।।
न्या० स०-गमांक्वौ-गमादीनामिति-गमादयोऽन्येऽपि बहुलं ज्ञेया, न तु 'यमिरमि' ४-२-५५ इति सूत्रोक्ता एव गमादिगणस्य तेभ्यः पृथग्भूतत्वात् , अत एव सूत्रे यमामित्येव नोक्त, रमिनमिहनीनामुदाहरणानि च न दर्शितानि ।