________________
१२२ ]
बृहवृत्ति-लघुन्याससंवलिते
[पाद-२, सूत्र-५०-५५
अनयोरुपान्त्यनकारस्य शधि परे लग्भवति । दशति, सजति । तुदादावपठित्वानयोभादौ पाठः शवर्थः-तेन 'श्यशवः' ( २-१-११५ ) इति नित्यमन्तादेशः सिद्धो भवति । दशन्ती, सजन्ती ॥४९॥
अकटघिनोश्च रज्जेः ।। ४. २. ५० ।।
रजेरकटि घिनणि शवि च प्रत्यये उपान्त्यनकारस्य लुग् भवति । रजकः, रागी, रजति । रजः, रजनिः, रजनम् रजतमित्यौणादिककित्प्रत्ययान्ताः ॥५०॥'
णौ मृगरमणे ।। ४. २. ५१ ॥
रजेरुपान्त्यनकारस्य गौ परे मगाणां रमणे क्रीडायामर्थे लुग्भवति । रजयति मृगान्व्याधः । मृगरमण इति किम् ? रञ्जयति रजको वस्त्रम् , रञ्जयति सभां नटः ॥५१॥
न्या० स० णौ मग०-मृगरमणादन्यत्रापि ऋश्चिदिच्छति, यथा राजर्षिकल्पो रजयति मनुष्यान् । रज्जयति रजको वस्त्रमिति-रजति वस्त्रं रजकः, स एवं विवक्षते-नाऽहं रजामि, रज्यते वस्त्रं स्वयमेव तद्रज्यमानं प्रयुकते, यद्वा रजति वर्णान्तरमापद्यते वस्त्रं कर्तृ तद्रजत् रजकः प्रयुङ क्ते णिग् ।
घञि भावकरणे ॥ ४. २. ५२ ।।
रज्जेरुपान्त्यनकारस्य भावकरणार्थे धनि परे लुग भवति । रञ्जनं रजत्यनेनेति वा रागः । घजि इति किम् ? रञ्जनम् । भावकरणे इति किम् ? रजन्त्यस्मिन्निति रङ्ग ॥५२॥
स्यदो जवे ॥ ४. २. ५३ ॥
स्यद इति स्यन्वेजि नलोपो वृद्ध्यभावश्च निपात्यते, जवे वेगेऽभिधेये । गोस्यवः, अश्वस्यवः । जव इति किम् ? घृतस्यन्दः तैलस्यन्दः ॥५३।।
दश-नावोदेधौद्म-प्रश्रथ-हिमश्रथम् ॥ ४. २. ५४ ॥
एते शब्दाः कृतनलोपादयो निपात्यन्ते । दन्शेरनटि अवपूर्वस्य उन्देः इन्धेश्च घनि उन्देर्मनि नलोपः प्रहिमपूर्वस्य श्रन्थेनि वृद्ध्यभावश्न निपात्यते । दशनम् , अवोदः, एषः, ओग्र, प्रश्रयः, हिमश्रयः ।।५४।।
___ न्या० स० दशनावो०-अवोद इति-अत्र गुणे कृते 'उपसर्गस्यानिणे.' १-२-१९ इत्यऽकारलोपः । यमि-रमि-नमि-गमि-हनि-मनि-वनति-तनादेघु टि क्लिति
॥४. २. ५५ ॥