________________
पाद-२, सूत्र-४४-४६ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[१२१
गम-हन-जन-खन-घसः स्वरेऽनङि क्ङिति लुक् ॥ ४. २. ४४ ॥
एषामुपान्त्यस्यावजिते स्वरादी विङति प्रत्यये परे लुग भवति । किति-गम् , जग्मतुः, जग्मुः। हन-जघ्नतुः, जघ्नुः । जन-जज्ञे, जज्ञाते, जज्ञिरे । खन्-चख्नतुः, चख्नुः । घस्-जक्षतुः, जक्षुः, जक्षिवान् , ङिति-घ्नन्ति । कतीह निघ्नानाः । कथं जज्ञतुः जजुः इति छान्दसावेतौ । स्वर इति किम् ? गम्यते, हन्यते । अनङीति किम् ? अगमत, अघसत् । विङतीति किम ? गमनम् , हननम् ।। ४४ ॥
न्या० स०-गमहन०-कथं जज्ञतुरिति धातोरात्मनेपदित्वात् कथं परस्मैपदमित्याशयः । छान्दसाविति-जुहोत्यादौ जन जनने परस्मैपदिनं छान्दसं पठन्ति तस्याऽयं प्रयोग इष्यते।
नो व्यञ्जनस्यानुदितः॥ ४.२.४५ ॥ . व्यञ्जनान्तस्यानुदितो धातोरुपान्त्यस्य नकारस्य विङति प्रत्यये परे लुग्भवति । स्रस्तः, स्रस्तवान् , स्रस्यते, सनोस्रस्यते, ध्वस्तः, ध्वस्तवान् , ध्वस्यते, दनीध्वस्यते, अस्तभत् , अग्लुचत् , परिष्वजते, परिष्वजेते ।
___ व्यञ्जनस्येति किम् ? नीयते, नेनीयते । अनुदित इति किम् ? टुनदु नन्द्यते, नानन्द्यते, क्ङितीत्येव,-स्रसिता, ध्वंसिता । उपान्त्यस्येत्येव,-नाते, नानह्यते ।। ४५ ॥
अञ्चेरन याम् ॥ ४. २. ४६ ॥
अञ्चेरन यामेव वर्तमानस्योपान्त्यनकारस्य लुग् भवति । उदक्तमुदकं पात , अनर्चायामिति किम् ? अञ्चिता गुरवः, पूर्वण सिद्धे नियमार्थो योगः ॥४६।।
लङ्गि-कम्प्योरुपतापाङ्ग-विकृत्योः ॥ ४. २. ४७ ॥ लङ्गिकम्प्योरुपान्त्यनकारस्य यथासंख्यमुपतापेऽङ्गविकारे चार्थे विङति प्रत्यये
लुग्भवति
विलगितः, विकपितः । उपतापाङ्गविकृत्योरिति किम् ? विलङ्गितः, विकम्पितः । लङ्गिकम्प्योरुदित्त्वात् पूर्वेणाप्राप्ते वचनम् । द्विवचनं क्ङितीत्यनेन यथासंख्यनिवृत्त्यर्थम् ।४७।
___न्या० स०-लङ्गिकम्प्यो०-बिगलित इति-विगल्यते स्म, रोगादिनोपतापितः । विलङ्गित इति-विलङ्गति स्म केनचिदङ्गेन हीन इत्यर्थः । विकम्पित इति-विकम्पते स्म मनसि कम्पितः, चित्ते भीत इत्यर्थ इति नाऽङ्गविकृतिः ।
भजेौँ वा ॥ ४. २. ४८ ॥ भजेरुपान्त्यनकारस्य औ परे लुग्वा भवति । प्रभाजि । अभजि ॥४८॥ दंश-सञ्जः शवि ॥ ४. २. ४१ ॥