________________
पाद - २, सूत्र - २२-२४ ]
श्री सिद्ध हेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ ११३
पदिति - 'मिमीमादामित्स्वरस्य' ४-१ - २० इत्यनेन मूलधातोरित्कार्यमऽद्वित्वं च भवति, तेनाऽत्र 'असमान लोपे ' ४-१-६३ इत्यनेन पूर्वस्य इल्लक्षणं सन्वत्कार्यं न भवति ।
स्फायू स्फाव् ।। ४. २. २२ ॥
स्फायतिणौ परे स्फाव् इत्ययमादेशो भवति । स्फावयति । अभेदनिर्देशोऽन्ताधिकारनिवृत्त्यर्थः ।। २२ ।।
शदिरगतौ शात् ॥ ४. २. २३ ॥
शीयते रगतावर्थे णौ परे शात् इत्ययमादेशो भवति । पुष्पाणि शातयति । अगताविति किम् ? गोपालको गाः शादयति, गमयतीत्यर्थः ||२३||
वस्तु वा ञिणम्परे ॥ ४. २. २४ ॥
घटादीनां धातूनां णौ परे ह्रस्वो भवति, त्रिणम्परे तु णौ दीर्घो वा भवति । घटयति, प्रघाटि, अघटि, घाटघाट, घटघटम्, व्यययति, अव्याथि, अव्यथ, व्यार्थव्याथम्, व्यर्थव्यथम्, हिडयति, अहीडि, प्रहिडि, हीडंहीडम, हिडंहिडम्, अक्षाञ्जि, प्रक्षञ्जि, क्षाक्षाञ्ज, क्षञ्जक्षञ्जम्, अदाक्षि, अदक्षि, दाक्षंदाक्षम्, दक्षंदक्षम्, क्षजिदक्ष्यादीनां ' घटादिपाठवलादनुपान्त्यस्यापि वा दीर्घः ।
वाणिम्पर इत्येव - हस्वविकल्पेन सिद्धे दीर्घग्रहणं हेडेरिकारस्य दीर्घत्वार्थम्, ह्रस्वविकल्पे हि पक्षे एकारश्रुतिः स्यात्, णिग्यव्यवहितेऽपि णौ ञिणम्परे दीर्घत्वार्थं च । णिग्व्यवाये, शमयन्तं प्रयुङ्क्ते, णिग् तदन्तात् ञौ णमि, प्रशामि, अशमि, शामंशामम्, शमंशमम् । यद्व्यवाये, शंशमयतेञौ णमि च अशंशामि, अशंशमि, शंशामंशंशामम्, शंशमंशंशमम् । अत्र योऽसौ णौ णिलुप्यते यश्च यङोऽकारस्तस्य स्थानिवद्भावेन घटादीनां व्यवहितत्वात् आनन्तयं नास्तीति । ञिणम्परे णौ न स्याद् हस्वविकल्पः । दीर्घग्रहणे तु दीर्घविधि प्रति स्थानिवद्भावप्रतिषेधादानन्तर्यमेवेति सिध्यति ।
घटिष् चेष्टायाम्, क्षजुङ् गतिदानयो:, व्यथिष् भयचलनयोः, प्रथिष् प्रख्याने, प्रदिष् मर्दने, स्वदिष् खदने, कटुङ क्रटुङ् क्लदुङ् वैक्लव्ये, क्रपिष् कृपायाम्, जित्वरिष् संभ्रमे, प्रसिषे विस्तारे, दक्षि हिंसागत्योः, श्रां पाके, स्मृ' आध्याने, दु मये, नू नये, ष्टकस्तक प्रतीघाते, चक तृप्तौ च, अंक कुटिलायां गतौ, कखे हसने, अग् अक्वत्, रंगे शङ्कायाम्, लगे सङ्गे, हगे, लगे, षगे, सगे, ष्टगे, स्थगे संवरणे, वटभट परिभाषणे, गट नृत्तौ, गड सेचने, हेड वेषने, लड जिह्वोन्मथने, फणकणररण गतौ, चण हिंसादानयोश्च शणश्ररण दाने, स्नथ, वनथ, क्रथ, क्लथ हिंसार्थाः, छद ऊर्जने, मदे हर्षग्लपनयोः, ष्टनस्तध्वन शब्दे, स्वन अवतंसने, चन हिंसायाम्, ज्वर रोगे, चल कम्पने, ह्वल ह्मल चलने, ज्वल दीप्तौ चेति घटादयः, फणिमेके घटादिमनिच्छन्तो गतावपि फाणयतीत्याहुः ||२४||
न्या० स० घटादेहस्वोट - हेडेरिकारस्य दीर्घत्वार्थमिति न च वाच्यं क्षञ्जेरपि दीर्घत्वार्थं यतस्तस्याऽनेन ह्रस्वविकल्प सामर्थ्यादेव अनुपान्त्यस्यापि णिति' ४-३-५०