________________
११४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद २, सूत्र-२५-२७
इति दीर्घः स्यात् । शंशामशंशाममिति-कश्चिद्व्यावहरिष्यति नात्र शमः संबन्धी णिः किन्तु संशंशम: ? न, तत्संबन्धिव्याख्यानाभावात् , यथा 'स्त्रिया ङितां वा' १-४-२८ ।
कगे-वनू-जन-जष्-कन-सञ्जः॥ ४. २. २५ ।।
एषां णौ परे ह्रस्वो भवति, त्रिणम्परे तु णो वा दो? भवति । कगे-कगयति, अकागि, अगि, कागंकागम् , कगंकगम् । वन्-उपवनयति, उपावानि, उपावनि, अवानि, अवनि, उपवानमुपवानम् , उपवनमुपवनम् , वानवानम् , वनवनम् । जन-जनयति, अजानि, अजनि, जानजानम् , जनंजनम् , जृष् जरयति, अजारि, अजरि, जारंजारम् , जरंजरम् । क्नस्-क्नसयति, अक्तासि, अक्नसि, क्नासंक्नासम् , सक्नसम् , रजि-रजयति मृगाव्याधः, अराजि, अरजि, राजराजम् , रंजरजम् ।
___ 'णो मृगरमणे' ( ४-२-६१ ) इति नलोपः । नलोपे वचनस्य चरितार्थत्वात नलोपाभावे,-अरञ्जि,-रजंरञ्जम् इत्यत्र वा दीर्घो न भवति । केचित्तु 'रुणसूच निरसने' इत्यस्यापीच्छन्ति । स्नसयति, कगे इति सौत्रो धातुः । एकारश्चदित्कार्यार्थः । अकगीत वनू इत्यूकारनिर्देशात वन भक्तौ इत्यस्य न भवति । वानयति, अवानि, वानवानम् इह घटादयः पठितार्था एव गृह्यन्ते । अर्थान्तरे तूद्घाटयति, श्रापयति, स्मारयति, दारयति, नाटयति, लाडयति, फाणयति, छादयति, प्रमादयति, ध्वानयति, स्वानयति, चालयतीत्यादि । कगादीनां तु अर्थविशेषो नोपादीयते ॥२५॥
न्या० स०-कगेवन-अकगीदिति-व्यञ्जनादेर्वोपान्त्यस्यात:' ४-३-४७ इत्यनेन वृद्धिः प्राप्ता 'न शिव जागृ' ४-३-४९ इति एदित्वान्न भवति । एके कगे धातु सर्वधात्वर्थेषु मेनिरे, यथा कगति याति भुङ क्ते सरतीत्यादि । अन्ये कगे नोच्यते इत्यर्थे जगुः, यथा कगति न वक्तीत्यर्थः । न लोपाभावे इति-मृगरमणाऽभावे न लोपाऽप्रवृत्तेरित्यर्थः । अर्थविशेषो नोपादीयते इति-पूर्वेण पृथग्योगादित्यर्थः ।
अमोऽकम्यमि-चमः ॥ ४. २. २६ ॥
कम्यमिचमिवजितस्यामन्तस्य धातोणी परे ह्रस्वो भवति, त्रिणम्परे तु णौ वा दी? भवति । रमयति, प्ररामि, अरमि, रामरामम् , रमरमम् , दयमति, अदामि. अदमि, दामंदामम् , दमंदमम् । कथं संकामयति, संक्रामन्तं करोतीति ? शत्रन्ताणिचि भविष्यति ।
अकम्यमिचम इति किम् ? कामयते, अकामि, कामकामम् , प्रामयति, आममामम् , आचामयति, आचामि, आचाममाचामम् ।।२।।
पर्यपात्स्खदः ॥ ४. २. २७ ॥
पर्यपाभ्यामेव परस्य स्खदेणौ परे ह्रस्वो भवति, त्रिणम्परे तु वा दीर्घः । परिस्खदयति, पर्यस्खादि, पर्यस्खदि, परिस्खादंपरिस्खादम् , परिस्खवंपरिस्खदम् , अपस्खदयति, अपास्खादि, अपास्खदि, अपस्खादमपस्खादम्, अपस्खदमपस्खदम्, प्रवादप्यन्ये, अवस्खदयति।