________________
११२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-२, सूत्र-१०-२१
धूग-प्रीगोर्न ॥ ४. २. १८ ॥
धगप्रोगइत्येतयोणौ परे नोऽन्तो भवति गट धूगश् धूग्ण वा धनयति, अदूधुनत् । प्रीश् प्रोग्ण वा, प्रोणयति अपिप्रिणत् । यौजादिकयोर्नेच्छन्त्येके । धावयति, प्राययति । अनुबन्धनिर्देशो यङ्लुबनिवृत्यर्थः । दोधावयति, पेप्राययति । धुवतिप्रीयतिनिवृत्त्यर्थश्चधावयति, प्राययति ।। १८ ।।
वो विधूनने जः ॥ १. २. ११ ॥
वा इत्येतस्य विधननेऽर्थे णौ परे जोऽन्तो भवति । पक्षण उपवाजयति, पुष्पाणि प्रवाजयति, अवीवजत् । विधनन इति किम् ? प्रो, केशानावापयति-शोषयतीत्यर्थः । वजिनैव सिद्ध वाते रूपान्तरनिवृत्त्यथं वचनम् ।। १६ ॥
न्या० स०-वो विधनने-उपवाजयतीति-वांक इत्यऽस्य न तु 4 ओर्वे इत्यस्य विधूनने वत्त्यऽभावात् , न च वाच्यं विधूनन इति व्यावृत्तेयङ्गवैकल्यं सूत्रे व इति सामान्य भणितेः ।
प्रा-शा-छा-सावेव्याहो यः ॥ १. २. २० ॥
एषां णौ परे योऽन्तो भवति । पां पाने, मैं शोषणे वा पाययति । पातेस्तु लकार उक्तः । शोंच-शाययति, छोंच अवच्छाययति, सों से वा-प्रवसाययति, वेग वाययति, वे इत्यनात्वेन निर्देशो वांक-गतिगन्धनयोः, ओवै शोषणे इत्यनयोनिवृत्त्यर्थः-वापयति, व्यंग-व्याययति,-हूंग-ह्वाययति । अपीपयत् , अशीशयत् इत्यादि । एषां कृतात्वानां ग्रहणादिह प्रकरणे लाक्षणिकस्यापि ग्रहणं भवति । तेन कापयतीत्यादि सिद्धम् , पोरपवादो योगः ।। २० ॥
न्या० स०-पाशाच्छा०-अपीपयदिति-पं शोषणे इत्यस्येदं पिबतेस्तु 'हुः पिबः' ४-१-३३ इत्यनेन पीप्यादेशेऽपीप्यदिति भवति ।
अति-री-ब्ली-ही-क्नू-यिक्ष्माय्यातां पुः ॥ ४. २. २१ ॥
एषामाकारान्तानां च धातूनां गौ परे पुरन्तो भवति । अर्तीति 'ऋगतो' 'ऋ प्रापणे चेत्यनयोर्ग्रहणं सामान्यनिर्देशात् । अर्पयति, तिनिर्देशो यङ्लुपनिवृत्त्यर्थः । अरारयति, अरियारयति ।
रीति रोयतिरिणात्योहणम्-रेपयति,-क्ली-ब्लेषयति, ही,-हेषयति, यि,कोपयति, मायि-मापयति, प्रादन्त,-दापयति, धापयति, जापयति, कापयति, अध्या. पयति, अदीवपत् । बहुवचनं व्याप्त्यर्थम् । तेन नाम्नोऽपि, सत्यापयति, अर्थापयति, वेदापयति, प्रिय,-प्रापर्यात, स्थिर-स्थापयति, स्फिर-स्फापयति, पोरकारः 'पुष्पौ' (४-३-३) इत्यत्र विशेषणार्थः ।।२१।।
न्या० स०-अत्तिरी०-अरारयतीति-आरतं प्रयुक्ते, अरियारयतीति-यङलुप् 'रिरौ च लुपि' ४-१-५६ इति रिः रीर्वा ततोऽरियतं, मतेनाऽयतं वा प्रयुङक्ते । अदीद