________________
पाद-२, सूत्र १३-१७ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[१११
वियः प्रजने ॥ ४. २. १३ ॥
प्रजनो जन्मन उपक्रमो गर्भग्रहरणम् । तस्मिन् वर्तमानस्य वी इत्येतस्य णौ परे आत्वमन्तादेशो वा भवति । पुरो वातो गा प्रवापयति, प्रवाययति गर्भ ग्राहयतीत्यर्थः । वातेः प्रजने वृत्ति स्तोत्यारम्भः ॥१३॥
न्या० स०-विय-प्र०-प्रजननं घत्र , 'न जनवधः' ४-३-५४ इति वृद्धिनिषेधः । ___पुर इति-पूर्वस्या दिश आगतः, 'पूर्वावराधरेभ्योऽस्' ७-२-११५, प्रवापयतीतिप्रवियतीः प्रयुङ क्ते।
रुहः पः॥४. २.१४॥ .
रुहेणौ परतः पकारोऽन्तादेशो वा भवति । रोपयति व्रीहीन , रोहयति व्रीहीन , रोहत्यर्थे रुप्यतिर्न दृश्यते इति योगारम्भः ॥ १४ ॥
लियो नोऽन्तः स्नेहवे ॥ ४. २. १५ ॥
ली इति लोग्लीडोः सामान्येन ग्रहणम् , लियः स्नेहद्रवेऽर्थे गम्यमाने णौ परे नोऽन्तोऽवयवो वा भवति । घृतं विलीनयति, घृतं विलालयति, णौ वद्धावायादेशः । लिय ई ली इति ईकारप्रश्लेषात् ईकारान्तस्यैव भवति । कृतात्वस्य तु वक्ष्यमाणो लकारपकारौ भवतः ।
घृतं विलालयति, विलापयति । स्नेहद्रव इति किम् ? यो विलाययति । पूर्वान्तकरणात व्यलोलिनादित्यत्रोपान्त्यह्रस्वो भवति । एवमुत्तरेष्वपि ॥१५॥
न्या० स०-लियो नोन्त:-लिय ई: लीस्तस्य उभयोः स्थाने इति न्यायात् समानानामिति दीर्धेऽपि इयादेशः । लोग्लीङोरिति-उपलक्षणत्वाल्लीण् इत्यस्यापि ।
लोलः॥ ४. २. १६ ॥
लाते। इत्यस्य च कृतात्वस्य स्नेहवेऽर्थे णौ परे लोऽन्तो वा भवति । घृतं विलालयति, घृतं विलापयति, घृतं व्यलीललत् । स्नेहद्रव इत्येव,-जटाभिरालापयते, श्येनो वर्तिकामुल्लापयते । लोलिनोऽर्चाभिभवे चाच्चाकर्तर्यपि' ( ३-३-६० ) इत्यनेनात्वमात्मनेपदं च ।। १६ ॥
पातेः ॥ ४. २. १७॥
पृथग्योगाद्वेति निवृत्तम् , पांक रक्षणे इत्येतस्य णौ परे लोऽन्तो भवति । पालयति, अपीपलत् । 'पलण रक्षणे' इति चौरादिकेनैव सिद्धे पातेोऽन्तः स्यादिति वचनम् । तिवनिर्देशो धात्वन्तरनिवृत्त्यर्थः । पा पाने, मैं शोषणे वा, पाययति । यङ लुनिवृत्त्यर्थश्च । पापाययति ।। १७ ॥
न्या० स०- पाते:-पापाययतीति-भृशं पाति यङ् लुप् द्वित्वं पापतं प्रयुङ क्ते ।