________________
११० ]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद-२, सूत्र-९-१२ लीड्-लिनोर्वा ॥ ४. २. १ ॥
लीयतेलिनातेश्च यपि खलचल्वजितेऽक्ङिति प्रत्यये च विषयभूते आकारोऽन्तादेशो वा भवति ।
विलाय, विलीय, विलाता, विलेता, विलास्यते, विलेष्यते, विलास्यति, विलेष्यति, व्यलासीत , व्यलषीत् । अखलचलीत्येव,-ईषद्विलयः, विलयः, विलयो वर्तते । यबक्ङितीत्येव,-लोनः, विलीनः, लीयते, लेलीयते, लिनाति । डिल्लुप्ततिवोनिर्देशाङ्लुपि न भवति-लेलेति । ली द्रवीकरण इति यौजादिकस्य च न भवति-विलयति ।।६।।
न्या० स-लोलिनोर्वा-णे विलाय इत्यपि सिद्धम् । लीन इति-'ऋल्वादेः' ४.२-६८ इति कैयादिकस्य देवादिकस्य 'सूयत्याद्यो' ४-२-७० इति नत्वम् ।
णौ क्री-जीङः ॥ ४. २. १० ॥
क्रींग , जि, इङ् इत्येतेषां गौ परे आकारोऽन्तादेशो भवति । क्रापयति, जापयति, अध्यापयति ॥१०॥
सिव्यतेरज्ञाने ॥ ४. २. ११ ॥
पिधच संराद्धावित्यस्याज्ञाने वर्तमानस्य णौ परतः स्वरस्याकारो भवति । मन्त्रं साधयति, तपः सापयति, अन्नं साधयति सामिकेभ्यो दातुम् ।
अज्ञान इति किम् ? तपस्तपस्विनं सेष्यति, सिध्यति जानीते तपस्वी ज्ञानविशेषमासादयति तं तपः प्रयुङ्क्ते इत्यर्थः । स्वान्येवैनं कर्माणि सेधयन्ति । अस्य अनुभवविशेषमुत्पादयन्तीत्यर्थः । सिध्यतेरिति किम् ? षिधू गत्यामिति भौवादिकस्य मा भूत् । अन्नं सेधयति, तपः सेधयति । साधिनैव सिद्धे सिध्यतेरज्ञाने सेधयतीति प्रयोगनिवृत्त्यर्थं वचनम् ।।११।।
न्या० स०-सिध्यतेर०-स्वरस्याकार इति-संध्यक्षरप्रस्तावात् स्वरस्येति लभ्यतेऽन्यथा 'षष्ठ्या अन्त्यस्य' ७.४.१०६ इति न्यायात् धकारस्यैव स्यात् ।
__सामिकेभ्य इति-समानो धर्मः सधर्मः स प्रयोजनमेषां 'प्रयोजनम्' ६-४-११७ इतीकण् , समानो धर्मोऽस्येति बहुव्रीहौ तु 'द्विपदाधर्मादऽन्' ७-३-१४१ स्यात् । कर्माणि सेधयन्तीति-सिध्यति अनुभवविशेषमासादयति तमेनं तपस्विनं कर्माणि प्रयुञ्जते । अनुभवविशेषमिति-अनुभवः साक्षात्कारः स च ज्ञानमेव ।
वि-स्फुरोर्नवा ॥ ४. २. १२ ॥
चिनोतेः स्फुरतेश्च णौ परे स्वरस्यात्वं वा भवति । चापयति, चाययति, स्फारयति, स्फोरयति ॥१२॥
न्या० स०-चिस्फुरो०-स्फरस्फलत् स्फुरणे इत्यनेनैव सिद्धे स्फुरेरात्ववचनं ण्यन्तात्सनि पुस्फारयिषतीत्येवमऽर्थम् ।