________________
पाद-१, सूत्र-- ११२-११३ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ १०५
क्तेऽनिटत्वात् गत्वं प्राप्नोति ? नैवम् , क्तेऽनिट इति विद्यमानस्य विशेषणम् , अजेस्तु वीभावेन असत्त्वाद् गत्वं न भवति । क्त इति किम् ? अर्चः, अय॑म् , याच्यम् , रोच्यम् । अर्चादयो हि अर्कः याचा रुक्ममिति प्रयोगेष्वनिटोऽपि क्ते सेट इति कत्वं न भवति । घितोति किम् ? पचनम् , त्यजनम् ।। १११।।
न्या० स० - क्तेऽनिट:-असत्त्वादिति-अविद्यमानत्वात् , यदि क्तकालेऽविकृतत्वात् धातोविद्यमानस्याऽनिटत्वं भवति तदेत्यर्थः ।
न्यबृद्गमेघादयः ॥ ४. १. ११२ ॥
न्यवादयः कृतकत्वा उद्गादयः कृतगत्वा मेघादयः कृतघत्वा निपात्यन्ते । न्यञ्चेरुप्रत्यये न्यकुः । तश्चिवञ्चिशुचीनां रकि तक्रम् , वकम् , शुक्रः, शुचिरुच्योनि शोकः, रोकः । क्ते सेट्वान्न प्राप्नोति । घोऽन्यत्र शोच्यम् , रोच्यम् , श्वपाकः, मांसपाकः, पिण्डपाकः, कपोतपाकः, उलूकपाक: । पचेः 'कर्मणोऽण' (५-१-७२) इत्यणि सति, प्रणभावे श्वपच इत्यादि। नीचेपाकः, दूरेपाकः, फलेपाकः, क्षणेपाकः । पचेर्नीचे पच्यते नीचे पच्यते स्वयमेवेति कर्मकर्तर्यचि दीर्घत्वं च निपातनात् । 'तत्पुरुषे कृति' (३-२-२०) इति बहुलाधिकारात् सप्तम्या अलुप् । उकारान्ता अपि गणे पठ्यन्ते । नीचेपाकुः, फलेपाकुः, दूरेपाकुः, क्षणेपाकुः, अत एव निपातनादुकारः । नोचेपाका, दूरेपाका, फलेपाका, क्षणेपाका इत्यावन्ता अपि । अनुबवीतीत्यच-अनुवाकः. सोमं प्रवक्तीत्यण-सोमप्रवाकः, उचेः न्युच्यति समवैतीति लिहाचि न्योको वृक्षः शकुन्तो वा। उब्जेनि-उद्गः, समुद्गः, न्युद्गः, अभ्युद्गः । क्ते सेट्त्वाद्गत्वमुपान्त्यस्य च दत्वं निपात्यते । सजेः कर्तर्यचि-सर्गः, विसर्गः, अवसर्गः, उपसर्गः । षञ्जरचि-व्यतिषङ्गः, अनुषङ्गः मस्जेरुः, मद्गुः, भ्रस्जे: कुः सलोपश्च । भृगुः, युजे: 'कर्मणोऽण्' (५.१-७२) इत्यणि गोयोगः मिहेरचि संज्ञायां हस्य घत्वम्-मेघः, अन्यत्र मेहः। वहेरनुपर्सगस्य वस्योकारश्च । वहतीत्योघः प्रवाहः । अनुपसर्गस्येत्येव,प्रवहः, विवहः, परिवहः, संवहः उद्वहः, अभिवहः, निवहः । संज्ञायामित्येव,-वहः । दहेन्यवाभ्यां घजि निदाघः ऋतविशेषः । अवदाघः केवलपानीयपक्वोऽषपः । संज्ञायामित्येव,निदाहः, अवदाहः । अर्हतेघनि अर्को मूल्यम् पूजाद्रव्यं च । संज्ञायामित्येव,-अर्हः एवमविहितलक्षणानि कत्वगत्वचत्वानि द्रष्टव्यानि ॥११२।।
न्या० म० न्यङ्कद्-अनुवाक इति-पाठविशेषः गणपाठाद्दीर्घत्वम् । व्यतिषङ्ग इति-व्यतिषजतीति क्रियाव्यतिहारे व्यतिषजते इति वाऽच्, 'स्थासेनि' २-३-४० इति षत्वम् ।
मदगुरिति-अत्र जस्य गत्वे कृते निमित्ताऽभाव इति दन्त्यसकारभावे दन्त्यसकारस्थाने 'तृतीयस्तृतीय' १.३.४९ इति दन्त्यसस्य तृतीयो दकारः।
न कञ्चेर्गतौ ॥ ४. १. ११३ ॥
वञ्चेर्गतौ वर्तमानस्य कत्वं न भवति, वञ्चेर्घञ् । वञ्च वञ्चति, गन्तव्यं गच्छतीत्यर्थः ।