________________
१०४ ]
बृहद्वृत्ति-लघुन्याससंवलिते [ पाद-१, सूत्र-१०९-१११
भिरिति । यङ्लुपि तु देद्योति देद्योषि, सेष्योति, सेष्योषि, देबूतः, सेप्यूतः । अन्ये तु देदेति, देदेषि, सेसेति, सेषेषीत्येवेच्छन्ति, तन्मतपरिग्रहार्थं विडतीत्यनुवर्तनीयम् । यजादिसूत्रे च च्छग्रहणं विधेयम् । टकार 'ऊटा' (१-२-१३) इत्यत्र विशेषणार्थः ।।१०८।।
न्या० स०-अनुनासिके चल-द्विः पाठादिति द्वित्वापन्नस्य छस्येत्यर्थः । द्वयोरपीति-अपि शब्दात् केवलस्य, तेन वाछु इच्छायामित्यस्य वान् वांशी वांश इति सिद्धं, न च वाच्यं सूत्रे द्विच्छकारपाठात् केवलस्य न प्राप्नोतीति छ् च च्छ् चेति कृते 'पदस्य' २-१-८६ इत्येकललोपे निमित्ताभाव इत्यनेन चस्य छत्वे 'अघोषप्रथम' ४-१-४५ इति पूर्वछस्य चत्वे च च् छ् इति साधितत्वात् , यद्वा पूर्व द्वि: च्छकार: द्वितीयस्तु लघु ततः च्छ् च छ् चेति कृति 'पदस्य' २-१-८९ इति लघुछकारस्य लुक, तदा निमित्ताभाव इत्यादि न क्रियते । अक्षयूरिति-साऽनुबन्धत्वादूटि कृते 'उ: पदान्तेऽनुत्' २-१-११८ इति न भवति । विकल्पेनाऽनुनासिकत्वादिति-म्लेच्छेयङलुपि वसि 'अनुनासिके च' ४-१-१०८ इति छस्य शत्वे मेम्लेश्व:, निरनुनासिकत्वे तु मेम्लेच्छ्व इति । विङतीत्यनुवर्तनीयमिति तहि प्रष्टेत्येतत् छस्य शत्वाऽभावे 'यजसृज' २-१-८७ इति षत्वाभावे न सेत्स्यतीत्याह-यजादीत्यादि ।
मव्यविश्रिविज्वरित्वरेरुपान्त्येन ॥ ४. १. १०१॥ .
शकारस्य स्थानी छ इह न संभवतीत्यूडेवानुवर्तते। मव्यादीनामनुनासिकादौ क्वौ धुडादौ च प्रत्यये वकारस्योपान्त्येन सहोड् भवति । मव-मोमा, मः, मुवी, मुवः, मूतिः।। यङ्लुपि-मामोति, मामूत: । अव-ओम् , औणादिको म-प्रोमा ऊ:-उवौ उवः, ऊतिः । श्रिव-श्रोमा, श्रूः, श्रुवौ, श्रुवः, भूतः, श्रूतवान् , भूतिः, शेश्रोति, शेभूतः । ज्वर,-जूर्मा, जू:, जूरी, जूरः जूतिः, जाति, जाजूर्तः । त्वर्-तुर्मा, तूः, तूरौ, तूरः, तूर्णः, तूर्णवान् , तूतिः, तातूर्ति, तातूतः । ज्वरत्वरोरुपान्त्यो वकारात्परः । श्रिव्यविमवां तु पूर्वः ॥१०॥
राल्लुक ॥ ४. १. ११०॥
रेफात्परयोर्धातोश्छकारवकारयोरनुनासिकादौ क्यो धुडादौ च प्रत्यये लुग्भवति शूटोऽपवादः । मुर्खा, हुर्छा, मोर्मा, होर्मा, मूः. मुरौ, मुरः, हू:, हुरौ, हुर , मूर्तः, मूर्तवान् , मतिः हर्णः, हूणवान् , हूतिः, मोमोति, जोहोति, तुर्वे, धुर्वे, तोर्मा, धोर्मा, तूः तुरौ, तुरः, धः धरौ, धुरः, तूर्णः, तूर्णवान् , तूतिः, घूर्णः, धूर्णवान् , धूतिः । धूर्त इति त्वौणादिकः । अनुनासिकादावित्येव,-मूर्छा, तूर्विता ।।११०।।
न्या० स०-राल्लुक -मोमेति-अत्र गुणे कर्तव्ये 'भ्वादे मिन:' २.१.६३ इति शास्त्रमसदिति गुणः, एवं धोर्मेत्यत्रापि । धूर्ण इति यद्यत्र णकारस्तत्कथं धूर्त इत्याहधूर्त इतीति।
क्तेऽनिटश्वजोः कगौ घिति ॥ ४. १. १११ ॥
क्तेऽनिटो धातोश्चकारजकारयोः स्थाने घिति प्रत्यये यथासख्यं कगौ भवतः । पाकः, सेकः, पाक्यम् , सेक्यम् , त्यागः, रागः, भोग्यम् , योग्यम् , संपर्को, संसर्गो । क्तेऽनिट इति किम् ? संकोचः, कूजः, खयः, गर्व्यः, परिवाज्यम् , उदाजः, समाजः, नन्वजेः