________________
पाद-१, सूत्र-१०५-१०८ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[१०३
३.२-८४ इति प्राक् दृष्टम् । यियविषतीति-प्रथमं गुणं बाधित्वा दीर्घ सकृद्गते इति प्रवर्तते ।
तनो वा ॥ ४. १. १०५ ॥
तनोतेधुडादौ सनि परे स्वरस्य दी? वा भवति । तितांसति, तितंसति । धुटीस्येव,-वितितनिषति । यङ्लुपि,-तंतनिषति ॥१०॥
न्या० स० तनो वा-तंतनिषतीति-'इवृध' ४-४-४७ इतीटि विकल्पात्तितांसति तितंसतीत्यपि ।
क्रमः क्वि वा ॥४. १. १०६ ।।
क्रमः स्वरस्य धुडादौ क्त्वाप्रत्यये वा दीर्घो भवति । कान्त्वा, क्रन्त्वा। धुटि इत्येव,-क्रमित्वा । 'ऊदितो वा' (४-४-४२) इति वेट् । प्रकम्येत्यत्र त्वन्तरङ्गमपि दीर्घत्वं बाधित्वा प्रागेव यप , एतच्च 'यपि चादो जग्ध' (४-४-१६) इत्यत्र ज्ञापयिष्यते ।।१०६॥
अहन्पञ्चमस्य विवक्ङिति ॥ ४. १. १०७॥
हनवजितस्य पञ्चमान्तस्य धातोः स्वरस्य क्वौ धुडादौ च क्ङिति प्रत्यये दी? भवति । प्रशान्, प्रतान् , प्रदान , प्रशामौ, प्रतामो, प्रदामौ। किति-शान्तः, शान्तवान्, शान्त्वा, शान्ति, एवं तान्तः, दान्तः । डिति-शंशान्तः, तन्तान्तः, दंदान्तः । पञ्चमस्येति किम् ? प्रोदनपक्, पक्त्वा । अहन्निति किम् ? वृत्रहणि, भ्रूणहनि । विवक्ङिति इति किम् ? गन्ता, रन्ता । धुटीत्येव,-यम्यते, यंयम्यते । कश्चित्त्वाचारक्वावपि दीर्घत्वमिच्छति । कमिवाचरति कामति, एवं शम्-शामति, किम् कोमति, इदम्-इदामति ।१०७।
न्या० स० प्रहनपञ्चम०-प्रशानिति-नादेशस्य परेऽसत्त्वान्नलोपाभावः, हन्वर्जनात उपदेशावस्थायां पञ्चमो गृह्यते, तेन सुगणित्यत्र दी| न । वृत्रहणीति-संज्ञायां 'पूर्वपदस्था' २-३-६४ इति असंज्ञायां तु 'कवर्गक' २-३-७६ इति णत्वं, कश्चित्तु आचारकाविति-स्वमते तु तस्मिन् धातुत्वाऽभावान्न दीर्घः ।
अनुनासिके चच्छवः शूट ॥ ४. १. १०८॥
अनुनासिकादौ क्वौ धुडादौ प्रत्यये च धातोश्च्छकारवकारयोर्यथासंख्यं श् ऊट इत्येतावादेशौ भवतः । प्रश्नः, विश्नः, छस्य द्विःपाठात् द्वयोरपि शकारः । क्वि-शब्दप्राट, शब्दप्राशौ, गोविट , गोविशौ, धुट-पृष्टः, पृष्टवान , प्रष्टा, प्रष्टुम् , स्योमा, स्योनः । सिवेमनि प्रत्यये औणादिके च ने लघूपान्त्यगुणात्पूर्वमूट क्रियते नित्यत्वात-तत्र कृतेऽल्पाश्रितत्वेनान्तरङ्गत्वाद्यत्वं न तु गुणः । अक्षय :, हिरण्ययुः । * 'प्रसिद्ध बहिरङ्गमन्तरङ्ग' * इति स्वरानन्तर्य नेष्यते तेन यत्वं भवति । द्यूतः, द्यूतवान् , दुधूषति । वकारस्य विकल्पेनानुनासिकत्वाद्वन्क्वनिपोः सुस्योवा, सुस्यूवा, पक्षे, सुसेवा, सुसित्वेत्यपि सिद्धम् । धातोरित्येव,दिवेरौणादिकडिवप्रत्ययान्तस्य धुभ्याम् , द्युभिः,-यदा तु दिवेः क्विप् तदा धातुत्वात धुभ्यां