________________
___ १०६ ]
बृहवृत्ति-लघुन्याससंवलिते [पाद-१, सूत्र-११४-११७
पर्येते व्यायवाण्यसंकुलं वित्तवत्तमा. ।
रात्रावपि महारण्ये वञ्च वञ्चन्ति वाणिजाः' ॥१॥ गताविति किम् ? वङ्ककाष्ठं कुटिलमित्यर्थ ।।११३।।
न्या० स०-न वञ्चेर्ग०-व्याधवार्केष्यसंकुले इति-वृक एव 'वृकाट्टेण्याण' ७-३-६४, व्याधश्च वाग्यश्च समासे कृते 'वान्येन' ६-१-१३३ इति विभाषया न लुप् वार्केण्य बहुत्वात् ।
यजेर्यज्ञाङ्ग ॥ ४. १. ११४ ॥
यज्ञाङ्ग वर्तमानस्य यजेर्जस्य गत्वं न भवति । पञ्च प्रयाजाः, त्रयोऽनुयाजाः, एकादशोपयाजाः, उपांशुयाजाः, पत्नीसंयाजाः, ऋतुयाजाः । पञ् याज इत्यप्यन्ये । यज्ञाङ्ग . इति किम् ? प्रयागः, अनुयागः, यागः ।।११४।।
न्या० स०-यजेर्यज्ञा०-पञ्च प्रयाजा इति-प्रेज्यन्ते एभिः 'व्यञ्जनाद् धन' ५-३-१३२, प्रयजनानि भावे घत्रि वा, एवं सर्वत्र भावेन बहुवचनेन च वाक्यानि ।
उपांशुयाजा इति-उपांशु एकान्ते यजनानि 'सप्तमी शौण्डाद्यैः' ३.१-८८ 'नाम्नि' ३-१-६४ वा समासः ।
ध्यण्यावश्यक ॥ ४. १. ११५ ॥
आवश्यकोपाधिके ध्यणि प्रत्यये परतो धातोश्चजोः कगौ न भवतः । अवश्यपाच्यम, अवश्यरेच्यम् , अवश्यरज्यम् , अवश्यभञ्ज्यम् । आवश्यके इति किम् ? पाक्यम् , रेक्यम् , रङ्ग्यम् , भङ्ग्यम् ॥११५॥
___ न्या० स० ध्यण्यावश्य-अवश्यपाच्यमित्यादिषु-'मयूरव्यंसक' ३-१-११६ इति सः, 'णिन् चावश्यक' ५-४-३६ इति घ्यण् ।
निप्राद्य जः शक्ये ॥ ४. १. ११६ ॥
निप्राभ्यां परस्य युजः शक्येऽर्थे गम्यमाने घ्यणि परे गो न भवति । नियोक्तु शक्यः, नियोज्यः, प्रयोज्यः । शक्य इति किम् ? नियोग्यः, प्रयोग्यः ॥११६।।
भुजो भक्ष्ये ॥ ४. १. ११७॥
भजो भक्ष्येऽर्थे ध्यणि परे गो न भवति । भोज्यमनम, भोज्या यवागूः भोज्यं पयः। भक्ष्य इति किम् ? भोग्यः कम्बलः प्रावरणीय इत्यर्थः । भोग्या अपूपाः पालनीया इत्यर्थः । भक्ष्यमभ्यवहार्यमात्रम् न खरविशदमेव । यथा अब्भक्ष्यो वायुमक्ष्य इति ॥११७॥
न्या० स० भूजो भ० - न खरविशदमेवेति कठोरप्रत्यक्षमित्यर्थः, अखरविशदमपि भक्ष्यं दृष्टमिति दृष्टान्तमाह-प्रबभक्ष्येति-आपो द्रवं रूपं न कठिनं प्रत्यक्षं त्वस्ति वायुस्तु कठिनो न प्रत्यक्षस्तस्यानुमानेन गम्यत्वात् तेन भोज्यं पय इत्यादि सिद्धम् ।