________________
बृहद्वृत्ति लघुन्याससंवलिते
[पाद १, सूत्र-७६-८०
ज्यश्च यपि ॥ ४. १. ७६ ॥ ज्या इत्येतस्य वेगश्च यपि परे वृन्न भवति । प्रज्याय, उपज्याय, प्रवाय उपवाय ७६। व्यः॥ ४. १.७७॥ व्येगो यपि परे वृन्न भवति । प्रव्याय, उपव्याय । योगविभाग उत्तरार्थः ।।७७।। संपरेर्वा ॥ ४. १.७८ ॥
संपरिभ्यां परस्य व्यगो यपि परे य्वद्वा न भवति । संव्याय,-संवीय, परिव्याय, परिवीय। निरपेक्षत्वेनान्तरङ्गत्वात् प्रागेव वृतो दीर्घत्वम् , न तु तोऽन्तः । समो नेच्छन्त्येके । तेन नित्यं संव्याय ।।७८॥
यजादिवः किति ॥ ४. १. ७१ ।।
नेति निवृत्तम्, यजादीनां धातूनां वचेश्च सस्वरान्तस्था किति प्रत्यये परे वृत् भवति । यजी,-ईजतुः, ईजुः, इज्यते, इज्यात , इष्ट:.-इष्टवान् , ईजिवान् , इष्ट्वा , इष्टि:, वेंग,-ऊयतुः, ऊयुः । 'प्रविति वा (४-१-७५) इति वचनात् ववतुः, ववुः, ऊवतुः, ऊवुः, . ऊयते, ऊयात् , उतः, उतवान् । व्यंग-संविव्यतुः, संविव्युः,-संवीयते, संवीयात , संवीत:, संवीतवान् । आँग-हूयते, हूयात् , हूतः-हूतवान् । वपीं, ऊपतुः, उपुः-उप्यते, उप्यात् , उप्तः, उप्तवान् । वहीं-ऊहतुः ऊहुः, उह्यते, उह्यात् , ऊढः, ऊढवान् । श्वि-शूयते, शूयात् , शूनः, शूनवान् । वद-ऊदतुः, ऊदुः, उधरो, उद्यात् , उदितः, उदितवान् । वसंऊषतुः, ऊषुः, उष्यते, उष्यात् , उषितः, उषितवान् । वचिति वचक ब्र गादेशो वा-ऊचतुः, ऊचुः, उच्यते, उच्यात् , उक्तः, उक्तवान् । यौजादिकस्य तु न भवति,-चच्यते । कितीति किम् ? इयाज, यक्षीष्ट, वावच्यते, वक्ता ॥७६।।
न्या० स०-यजादिवचे०-नेति निवृत्तमिति-प्राप्तेरभावात् । इष्टिरिति-'आस्यटि' ५-३-६७ इति क्यपसमावेशार्थ श्रवादिकत्वात् क्तिः । उत इति-क्विपि तु उत् उतौ उत इति, परमते तु ऊ: उवौ उवः, ते 'दीर्घमवोऽन्त्यम्' ४-१-१०३ इत्यत्र अव इति न कुर्वते । यौजादिकस्य तु न भवतीति-नित्याणिजन्तैर्यजादिभिः साहचर्यादित्यर्थः ।
स्वपेर्यडे च ॥ ४. १.८०॥
स्वपेर्यङि डे किति च प्रत्यये सस्वरान्तस्था वृत् भवति । सोषुप्यते, सोषुपीति । यङ्लुपि नेच्छन्त्यन्ये-सास्वप्ति । णिमन्तरेण इस्यासंभवात् स्वपितिय॑न्तो लभ्यते । असूषुपत् । डे, वृत्, गुणो, ह्रस्वत्वं, द्वित्वं, पूर्वस्य दीर्घत्वमित्यत्र,-क्रमः । किति,-सुषुपतुः, सुप्यते, सुप्यात् , सुषुप्सति । एध्विति किम् ? स्वपिति । घन्तादपि केचिदिच्छन्ति । स्वापमकरोत् असुषुपत् ।।८।।