________________
पाद-१, सूत्र-७३-७५ ] श्री सिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[९५
उकारऋकाररूपा प्रत्यासत्या भवति । इयाज, इयजिथ, वेंग-उवाय, उवयिथ, डुवपीउवाप, उवपिथ, वहीं,-उवाह, उवहिथ, बद-उवाद, उवदिथ, वसं-उवास, उवसिथ, व्येगः पूर्वेणेकारविधानबलात् ह्वेगश्वयत्योस्तु पूर्वस्यान्तस्थाया अभावात् न भवति । वश्उवाश, उवशिथ । वचिति वश्साहचर्यात् वचंकब्र गादेशो वा आवादिको गृह्यते न यौजादिकः । उवाच, उचिथ । परोक्षायामित्येव,- यायज्यते, वावच्यते ॥७२।।
न्या० स० यजादिवश०-उवयिथेति-सृजिशि' ४-४-७८ इति वेटि 'थ्वो:प्वऽय' ४.४-१२१ इति य लुपि उवथ, वहेस्तु उवोढ इति भवति । ह्रगश्वयोस्त्विति-'द्वित्वे ह्वः' ४-१-८९ 'वा परोक्षायङि' ४-१-९० इत्यनेन च स्वविधानात् विकल्पपक्षेऽपि 'व्यञ्जनस्य' ४-१-४४ इति लुकप्रवृतेः ।
न वयो यु ॥ ४. १. ७३ ॥ . पूर्वस्येति निवृत्तमसंभवात् । वेगादेशस्य वयेर्यकारः परोक्षायां य्वृन्न भवति । ऊयतुः ऊयुः ।।७३।।
न्या० स०-न वयो य-ऊयतुरिति-वेंग् 'वेवय' ४-४-१६ 'यजादिवचेः किति' ४-१-७९ वकारस्य स्वृत् , द्वित्वे 'व्यञ्जनस्य ४-१-४४ इति यलोपे 'समानानाम्' १-२-१ इति दीर्घः, अत्र 'यजादिवचे:' ४-१-७६ इत्यनेन यकारस्य वकाराकारेण सह वृत्प्राप्नोति ।
वेरयः॥४. १. ७४ ॥
वेगोऽयकारान्तस्य पूर्वस्य परस्य च परोक्षायां ग्वृन्न भवति । ववो, वविथ । अय इति किम् ? उवाय, उवयिथ ॥७४।।
न्या० स०-वेरय०-ववाविति-'वेर्वय' ४-४-१६ इत्यस्य विकल्पप्रवृत्तेर्वयऽभावः, अत्र 'यजादिवश्' ४-१-७२ इति प्रथमस्य न प्राप्नोति । उवायेति-अत्र वयादेशे किदऽभावात् 'यजादिवचे' ४-१-७६ इत्यस्याप्रवृत्तौ द्वित्वे 'यजादिवश्' ४-१-७२ इति पूर्ववकारस्य य्वृत् ।
अविति वा ॥ ४. १.७५ ॥
वेगोऽयकारान्तस्याविति परोक्षायां परतो वृद्वा न भवति । ववतुः, ववः, ऊवतुः, ऊवः । द्वित्वे कृते परत्वाद्धातोरुवावेशे सति पश्चात् पूर्वस्य समानस्य दीर्घः । अय इति किम् ? ऊयतुः, ऊयुः ।।७।।
न्या० स०-प्रवितिवा-ववतुरिति-द्वित्वात् प्रागेव 'यजादिवचेः ४-१-७६ इत्यनेन प्राप्तमनेन विकल्प्यते, द्वित्वे तु कृते पूर्वस्य 'यजादिवश्' ४-१-७२ इति प्राप्तं 'वेरयः' ४-१-७४ इत्यनेन निषिध्यते ।।
ऊवतुरिति-अत्र पूर्वं य्वृत्ततो द्वित्वं * वृत्सकृत् * इति न्यायात् पश्चात्वकारस्य न स्वत् ।