________________
पाद-१, सूत्र-८१-८४ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः ।
[६७
न्या० स०-स्वपेय च-असूषुपदिति-न च वाच्यं * प्राक् तु स्वरे० * इति न्यायात् द्वित्वमेव भविष्यति न णिगाश्रितो गुणः, यतो यदि तेनैव द्वित्वनिमित्तेन प्रत्ययेन जन्यते स्वरविधिस्तदैव न स्यादऽत्र तु द्वित्वनिमित्तप्रत्ययाऽजन्य इति ।
असुषुपदिति-स्वमते तु असस्वापदिति । ज्याव्यधः क्ङिति ॥ ४. १.८१ ॥
जिनाविध्यतेश्च सस्वरान्तस्था किति डिति च प्रत्यये परे स्वत् भवति । जिज्यतुः जीयते, जीयात् , जीनः, ङिति-जिनाति, जेजीयते, जेजेति, विविधतुः, विध्यते, विध्यात् , विद्धः, डिति-विध्यति, वेविध्यते, वेवेद्धि । विङति इति किम् ? ज्याता, व्यद्धा ।।८१॥
न्या० स०-ज्याव्यधः-प्रत्यय इति विशेष्यं ङितीति विशेषणमतो धातुनिमित्तयोर्यथासंख्यं न भवति । जिनातीति-रवृत् 'दीर्घमवोन्त्यं' ४-१-१०३ 'प्वादेहूं स्वः' ४-२-१०५।
व्यचोऽनसि ।। ४. १. ८२ ।।
व्यचेः सस्वरान्तस्थाऽस्वजिते पिङति प्रत्यये परे म्वृद्भवति । विचिता, विचितुम् , वेविच्यते, विचति । अनसोति किम् ? उरुव्यचा: ।।२।।
न्या० स०-व्यचोऽनसि-विचितेति-कुटादित्वात् ङित्वे यवृत् । उरुव्यचा इतिउरुविचति असित्यऽसः कुटादित्वात् ङित्वम् ।
वशेरयङि ।। ४. १. ८३ ॥
वशेः सस्वरान्तस्था अयङि डिति प्रत्यये परे वृद्भवति । उश्यते, ऊशतुः उशितम् , उष्टः, उशन्ति । अयङीति किम् ? वावश्यते । क्डिन्तीत्येव,-वष्टि ।।८३॥
ग्रह-वस्व-भ्रस्ज-प्रच्छः ॥ ४. १.८४॥
ग्रहादीनां सस्वरान्तस्था क्ङिति प्रत्यये परे य्वद्भवति । जगहतुः, जगृहुः गृह्यते, गृहीतः, जिघृक्षति, गृह्वाति, जरोगृह्यते, जरीगहीति, वृश्च्यते, वृक्णः, वृश्चति, वरीवृश्च्यते, भज्ज्यते, भृष्टः, भृज्जति, बरीभृज्ज्यते, पृच्छयते, पिपच्छिषति पृष्टः, पृच्छतिः, परीपृच्छचते, पच्छा। ङितोत्येव,-ग्रहीता, ववश्चतुः वभ्रज्जतुः, पप्रच्छतु, प्रश्नः । व्यचिवशिवश्चिभ्रस्जिप्रच्छीनां पञ्चानां यङलबन्तानां नेच्छन्त्यन्ये । तस् ,-वाव्यक्तः । नाम्नि-तिकवाव्यक्तिः, वावष्टः, वावष्टिः, वावष्टः, वावष्टिः, बाभ्रष्टः, बाभ्रष्टिः, पाप्रष्टः, पाप्रष्टिः। अन्ये तु के 'प्रकृतिग्रहणे यङ्लुबन्तस्यापि ग्रहणम्' * इति यङ्लुप्यपि मन्यन्ते तेन वेविक्तः, वेविक्तिः, वरिवृष्टः, बरिवृष्टिः बरिभृष्टः, बरिभृष्टिः, परिपृष्टः, परिपृष्टिः । अपरे तु विचतिवृश्चतिभृज्जतिपृच्छतीनां नित्यं वृत ज्यादीनां त्वनित्यमिति मन्यन्ते तेनेदं सिद्धम् 'तस्यास्त्रयस्त्रीनपि विव्यधुः शरैः' इति अन्ये तु विधिधुरित्येवाहुः ।।८४॥