________________
ε२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[ पाद - १, सूत्र - ६३-६४
द्वित्व इति किम् ? सोषोपयिषति - श्रत्र यङ्लुबन्तात् द्वित्वे सति णिर्न तु णौ सति द्वित्वमिति ।। ६२ ।।
न्या० स०-स्वपो०- अनन्तराऽनन्तरिभावसंबन्धे षष्ठी आनन्तर्यषष्ठ्याः फलमसुवापकीयत्, सनीति निवृत्तं कार्यान्तरविधानात् ।
नन्वऽस्वापपकीय दित्यादौ 'स्वपोणावु : ' ४-१-६२ इत्युकारः कथं न ? उच्यते - स्वपेः संबन्धी अकारो नास्ति, किंतु णकसंबन्धी अकार इति ।
सिवाकोयिषतीति स्वपन्तं प्रयुङ्क्त णिग्, स्वापयतीति णकः, स्वापकमिच्छति क्यन्, स्वापकीयितुमिच्छति सन् ततो 'णिस्तोरेव' २-३ - ३७ इति षत्वम् ।
1
सोषोपयिषतीति भृशार्थे यङ लुप् ' स्वपेयङङ े च' ४ १ ८० इति यङ् लुप्यपि वृत् ततो द्वित्वं, सोषुपतं प्रयुङ्क्ते णिग् सोषोपयितुमिच्छति सन् 'णिस्तोरेव' २-३-३७
1
इति षत्वम् । असमान - प्रयोजितवानिति प्रयुक्तवानित्यर्थः, यौजादिकस्य प्रयोगात् ।
rata वीणामिति वदति वीणा तां परिवादकः प्रयुक्तवान् तमऽन्यः प्रयुक्तवान् णिग्द्वयं । यद्यप्यत्र णौ णेर्लोपोऽभूत्तथापि न समानलोपः यतो णाविति जात्या एकवचनं ततश्च यः कश्चित् णिग् स सर्वोऽपि निमित्ततयोपात्तः, अतः स लुप्तोऽपि निमित्तं, एवमपीपठदित्यत्रापीति ।
समानलोपे सन्वलघुनि डे ॥। ४. १. ६३ ।।
"
न विद्यते समानस्य लोपो यस्मिन् ङपरे णौ द्वित्वे सति पूर्वस्य लघुनि धात्वक्षरे परे सनीय कार्य भवति । सन्यस्येत्वमुक्तमिहापि तथा अचोकरत्, अजीहरत् । 'ओर्जान्तस्थापवर्गेऽवर्णे' ( ४-५-६३ ) इत्युक्तमिहापि तथा अजीजवत्, प्रयोयवत्, अरीरवत् प्रलीलवत्, पीपवत्, प्रबीभवत्, अमीमवत् । 'श्रुत्र डुप्लुच्योर्वा' (४-१-९१ ) इत्युक्तमिहापि तथा - अशिश्रवत्, अशुश्रवत् श्रदिद्रवत्, अद्रवत्, श्रपिप्रवत्, अपुप्रवत्, अपिप्लवत्, अपुप्लवत्, अचिच्यवत्, अचुच्यवत् । अन्यस्य न भवति - अनूनवत्, अजूहवत् । लघुनीति किम् ? अततक्षत्, अबभाणत्, अचिक्रमत्, अचिक्वणत् इत्यादौ अनेकव्यञ्जनव्यवधानेऽपि स्थादीनामित्वबाधकस्यात्वस्य शासनात् सन्वद्भावो भवति, न तु स्वरख्यञ्जनव्यवायेऽपि तेन अजजागरत् । णावित्येव, अचकमत । श्रसमानलोप इति किम् ? प्रचकथत्, पदमाख्यात् अददृपत् । पटुं लघु कषि हरि वाख्यत् अपीपटत्, अलीलघत्, प्रचीकपत्, अजीहरत् इत्यादौ तु वृद्धौ कृतायां सन्ध्यक्षरलोप इति असमानलोपत्वात्सन्वद्भावः । णाविति जात्याश्रयणात् वादितवन्तं प्रयोजितवान् अवीवदद्वीणां परिवादकेन, अपीपठन्माणवकमुपाध्यायेन, अत्र णेः समानस्य लोपेऽपि भवति ॥ ६३ ॥ |
घोर्दीर्घोऽस्वरादेः ॥। ४. १. ६४ ॥
अस्वरादेर्धातोर्ड परेऽसमानलोपे णौ द्वित्वे सति पूर्वस्य लघोर्लघुनि धात्वक्षरे परे दीर्घो भवति । अचोचरत्, श्रलीलवत्, अतृतवत् अब्बूभुजत् । लघोरिति किम् ? अचि -