________________
पाद-१, सूत्र-६५-६८]
श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ ९३
क्षणत् । अस्वरादेरिति किम् ? और्ण नवत् । ऊरुरिवाचरतीति क्विन्लोपे णौ औरिरवत् । लघुनीत्येव,-अततक्षत् । णावित्येव,-अचकमत । ङ इत्येव,-रिरमयिषति । असमानलोपे इत्येव,-प्रचकथत् , अददृषत् । णिजात्याश्रयणात् प्रवीवदद्वीणां परिवादकेन ।।६४।।
न्या० स०-लघोर्दी?०-अचीचरदिति-ननु 'स्वरस्य' ७-४-११० इति परिभाषया पूर्वस्मिन्नित्वे विधेये स्वरादेशस्य ह्रस्वस्य स्थानित्वेन लघुनीत्यभावादित्वं न प्राप्नोति ? उच्यते, 'स्वरस्य' ७-४-११० इति पूर्वस्मिन् ( कालापेक्षया देशापेक्षया वा ) स्थानित्वमत्र तु कालापेक्षया इत्वस्य परत्वं यतः प्रथममुपान्त्यहस्वस्तत इत्वमिति, देशापेक्षया तु परिभाषाया अनित्यता, तथाहि-पूर्वदेशे ह्रस्व इति परिभाषाप्रसक्तिः ।
स्मृदृत्वरप्रथम्रदस्तस्पशेरः।। ४. १. ६५ ॥
एषां धातूनामसमानलोपे ऊपरे णौ द्वित्वे सति पूर्वस्याकारोऽन्तादेशो भवति, सन्वद्भावापवादः । स्मृ,-प्रसस्मरत, दृ, अददरत ,-अत्र परत्वादी?ऽपि न भवति । त्वर,अतत्वरत्, प्रथ,-अपप्रथत् , म्रद,-अमनदत्, स्तृ-अतस्तरत् , स्पश-अपस्पशत् ॥६५॥
__न्या० स०-स्महत्त्वर०-सन्वाभावापवाद इति-बहुप्रयोगापेक्षयेदमुक्त यावता दीर्घस्यापि । अपस्पशदिति-स्पशि: सौत्र, स्पशिण इति णिगन्तो वा, केचित्त पषीस्थाने स्पशीति पठन्ति तस्य वा।
वा वेष्टचेष्टः॥ ४. १. ६६ ॥
वेष्ट वेष्टोर्धात्वोरसमानलोपे उपरे णौ द्वित्वे सति पूर्वस्य प्रकारोऽन्तावेशो वा भवति । प्रववेष्टत् , अविवेष्टत् , अचचेष्टत् , अचिचेष्टत् ॥६६॥
ई च गणः॥ ४. १. ६७॥
गणेङपरे णौ द्वित्वे पूर्वस्येकारोऽकारश्चन्तादेशो भवति । अजीगणत् , अजगणत, गणेरदन्तत्वेन समानलोपित्वात्सन्यद्भावो दीर्घत्वं च न प्राप्नोतीतीत्वविधिः । 'भूरिदाक्षिज्यसंपन्नं यत्वं सान्त्वमवोकथः' इति प्रयोगदर्शनादन्येषामपि यथादर्शनमीत्वमिच्छन्त्येके ।।६७।। ।
न्या० स०-ई च गणः-ननु ई वा गण इति क्रियतामदन्तत्वेन समानलोपित्वादेव पक्षेऽजगणदिति भविष्यति ? सत्यं, चुरादिभ्यो णिच अनित्यो णिच्सन्नियोगे एवैषामsदन्तत्वं तदऽभावे तदऽभावादऽजगणदिति न सिध्येत् कित्वऽजोगणदित्येव ।
अस्यादेराः परोक्षायाम् ॥ ४. १. ६८ ॥
परोक्षायां धातोद्वित्वे सति पूर्वस्यादेरकारस्याकारो भवति । आटतुः, आटुः, आटिथ, आदतुः, प्रादुः, आदिथ । अस्येति किम् ? ईयतुः,-ईयुः। आदेरिति किम् ? पपाच । परोक्षायामिति उत्तरार्थम् ।।६।।