________________
पाद - १, सूत्र - ६१-६२ ]
श्री सिद्ध हेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः [ ९१
किम् ? पापचिषते । जान्तस्थापवर्ग इति किम् ? श्रवतुतावयिषति, जुहावयिषति, शुशाaff | अवर्ण इति किम् ? बुभूषति, जुज्यावयिषति । सनीत्येव - लुलाव । ननु व्यन्तानां वृद्ध्यवा देशयोः कृतयो द्वित्वे सति पूर्वस्योकारान्तता न संभवति, तत्र 'सन्यस्य' ( ४ - १ - ५९ ) इत्यनेनैव सिद्धे किं गुरुणा सूत्रेण एतावत्तु विधेयम् 'ओ: पयेऽवर्णे' इति - पिपविषति, यियविषतीत्यत्र पूर्वस्योकारान्तस्येत्वं यथा स्यात् ? सत्यं, णौ यत्कृतं कार्यं तत्सर्वं स्थानिवद्भवति * इति न्यायज्ञापनार्थं वचनम्, तेन पुस्कारयिषति चुक्षावयिषति, शुशावयिषतीत्याद्यपि सिद्धम् । एतच्च ज्ञापकं जान्तस्थापवर्गवत् अन्यत्राप्यवर्ण एव द्रष्टव्यम् तेनाचिक्कीतदित्यत्रेकारवतो द्विर्वचनं सिद्धम् ॥६०॥
न्या. स०- ओजन्तस्था० - यियविषतीति- 'यु ं ग् श् योतुमिच्छति युक्मिश्रणे यवितुमिच्छति सन् 'इवृध' ४-४-४७ इट् । जुहावयिषतीति ह्वयन्तं प्रयुक्त णिग् 'णौ ङसनि' ४-१-८८ इति णिविषयेऽपि य्वृत्, ह्वाययितुमिच्छति हुंक् इत्यस्य तु हावयितुमिच्छति सन् । शुशावयिषतीति श्वयन्तं प्रयुङ्क्ते णिग् 'श्वेर्वा' ४-१-८९ इति णिविषये वृत् श्वाययितुमिच्छति । श्रन्यत्रापीति - ओजन्तिस्थापवर्गेऽपीत्यर्थः तेना चिकीर्तदिति ननु कीत्र्यादेशस्यानिमित्ते एव विधानात् निमित्तत्वाऽभावे कथं णौ यत्कृतं कार्यम् इति न्यायेन स्थानित्वप्राप्तिरिति ? सत्यं -यद्विना यन्न भवति तत्तस्य निमित्तमिति कृत्वा णिज् निमित्तं कीर्त्तः, यतश्चुरादीनां णिच् अवश्यमेव भवति, ततो णिच्संनियोगे कोशोतो निमित्तत्वम् ।
श्रु-ख-दु-प्लुच्योर्वा ॥ ४. १. ६१ ॥
एषां सनि परे द्वित्वे सति पूर्वस्योकारान्तस्यान्तस्थायामवर्णान्तायां परत इकारोऽन्तादेशो वा भवति । शिश्रावयिषति, श्रुश्रावयिषति, सिस्रावयिषति, सुस्रावयिषति, दिद्रावयिषति, दुद्रावयिषति, पिप्रावयिषति, पुप्रावयिषति, पिप्लावयिषति, पुप्लावयिषति, चिच्यावयिषति, चुच्यावयिषति । वचनादेकेनावर्णेनान्तस्थाया व्यवधानमाश्रीयते । अवर्ण इत्येव श्रुश्रूषते, सुत्र षति । ओरित्येव - सोत्रविषति ॥ ६१ ॥
न्या० स० श्रुत्र दु० - सोस्रविषतीति- कुटिलार्थे यङ् लुबन्तस्य सनि स्रवतेः प्रयोगः, यदि शृणोतेः स्यात्तदा सनि प्रत्यये परे 'श्रुवोऽनाङ प्रते : ' ३ - ३-७१ इत्यात्मनेपदं स्यात्, अतः कारणात् शोधितम् ।
स्वपो णावुः ॥। ४. १. ६२ ।।
सनोति निवृत्तम्, स्वपेण सति द्वित्वे कृते पूर्वस्योकारोन्तादेशो भवति । सुष्वापfrषति, स्वपेण णके क्यनि णौ ङे च असुष्वापकीयत् । स्वापेः क्विबन्तात्कतु' : क्विपि यसोवाप्यते । अन्ये तु णौ सति क्विवनिमित्तानन्तयें एवेच्छन्ति । स्वापकीयतेः सनि सिवाकोयिषति । णाविति किम् ? णकान्तात्वयनि सनि च सिध्वापकीयिषति । स्वपो गाविति किम् ? स्वापं चिकीर्षति सिष्वापयिषति, अत्र न स्वपेणिर्धत्रा व्यवधानात् । स्वपो णौ सति