________________
पाद - १, सूत्र - ५३-५६ ]
श्री सिद्ध हेमचन्द्र शब्दानुशासने चतुर्थोऽध्यायः
[ ८९
न्तम् । जंजभीति - आगमशासनमनित्यमिति 'जभः स्वरे' ४-४-१०० इति नागमाभावः । लुप्तनकारेति - 'गुलुप' ३ - ४ - १२ इत्यत्रापि ज्ञापितं परं द्विर्बद्धं सुबद्धं भवति इत्यत्रापि ज्ञापितम् ।
चरफलाम् ॥ ४. १. ५३॥
चरफलत्रिफला इत्येषां यङन्तानां द्वित्वे सति पूर्वस्य मुरन्तो भवति । चंचूर्यते, चञ्चुरीति, पम्फुल्यते, पम्फुलीति । बहुवचनं त्रिफला विशरणे इत्यस्यापि परिग्रहार्थम् ॥५३॥
ति चोपान्त्यातोऽनोदुः ॥ ४, १. ५४ ॥
यङन्तानां चरफलां तकारादौ च प्रत्यये उपान्त्यस्यात उरादेशो भवति 'स चानोत्' तस्य गुणो न भवति । चंचूर्यते, चंचुरीति, पंफुल्यते, पंफुलीति, चूतिः, ब्रह्मचूणिः, प्रफुल्लिः, प्रफुल्लः, प्रफुल्लवान् । श्रत इति किम् ? चारयतेः फालयतेश्व क्विप् तत आचारे क्विप्, ततो यङ् चचार्यते पंफाल्यते । अत्रैकदेशविकृतस्यानन्यत्वात्प्राप्नोति । श्रनोदिति किम् ? चंचूति, पंफुल्ति अत्र गुणो न भवति ।। ५४ ।।
1
न्या० स० - तिचोपान्त्या०- यङन्तानामिति द्वित्वे सति ज्ञातव्यं न पूर्वस्य उपान्त्याऽकारस्य ग्रहणात् । चञ्चूर्यते इति द्वित्वे सतीत्यधिकारान्न पूर्वमुत्वम् । चूतिरित्यत्र तु द्वित्वाऽसंभवात् द्वित्वाऽभावेऽपीति दृश्यम् । चूतिरिति चरणं 'समज' ५-१-९९ इति समावेशार्थत्वात् 'श्रवादिभ्यः' ५ १-९२ क्तिः । प्रफुल्ल इति - त्रिफलेत्यस्य यदा फलति स्मेति वाक्ये क्तस्तदा 'आदित: ' ४-४-७१ इति नित्यमिडऽभावः, फलितुमारब्ध इति आरम्भे क्ते तु 'नवा भावारम्भे' ४-४-७२ इति वेट् फलनिष्पत्तावित्यस्य तु नित्यमिट् । चञ्चार्यत इति चरन्तं प्रयुङ्क्ते णिग् वृद्धिः चारयतीति क्विप् 'णेरनिटि' ४-३-८३ चारिवाचरति 'कर्ता' : क्विप्' ३-४-२५ गर्हितं चारति एवं पंफाल्यते इति ।
"
ऋमतां रीः ॥ ४, १. ५५ ॥
ऋकारवतां धातूनां यङन्तानां द्वित्वे सति पूर्वस्य रीरन्तो भवति । नृतैच्-नरी - नृत्यते, दृशू - दरीदृश्यते, वृतङ् वरीवृत्यते, वृधूङ वरीवृध्यते, कृपौङ्-चलीक्कृप्यते, धज् दधृज्यते, प्रच्छंद - परीपृच्छ्यते, ओव्रश्चात् वरीवृश्च्यते, ग्रहीश्- जरीगृह्यते, प्रच्छिवश्विग्रहीणामृकारे कृते ऋमत्त्वम् । ऋमतामिति किम् ? चेक्रीयते, जेह्रीयते । कृगहुगो रीभावे कृते द्वित्वमिति ऋमत्त्वं नास्ति, बहुवचननिर्देशो लाक्षणिकपरिग्रहार्थः ।। ५५।।
न्या० सः ऋमतां-चलोक्लृप्यते द्वित्वात् प्रागेव 'ऋर लृलम्' २-३-९९ इत्यस्य प्रवृत्तौ ततो द्वित्वे ऋकारोपदिष्टम् इति न्यायेन लृकारस्याप्यात् । दरीबृज्यते इतिइकारोपान्त्यमिति केचित्तन्मते भृशं धिजति देध्रिज्यते इति । चेक्रीयते इति - 'ऋतो री: ' ४-३-१०९ ततो द्वित्वम् ।
रिरौ च लुपि ।। ४. १, ५६ ॥