________________
८८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-१, सूत्र-४९-५२
न्या० स०-आगुणा०-न भविष्यन्ति न्यादयो यस्य असावऽन्यादि: तस्य ।
अपवादत्वान्यादय एवेति-न्यादीनां तु संबन्धिनोऽन्तस्य विधानसामर्थ्यान्न प्राप्तिः, अत पूर्वस्यैव प्राप्नुत आगुणौ । सन्वत्कार्यमिति-सन्वत्कार्यबाधे त्वऽचाकरदित्यनिष्टं स्यात् ।
न हाको लुपि ॥ ४. १. ४१ ॥
ओहांक त्यागे इत्यस्य द्वित्वे सति पूर्वस्य यडो लुप्याकारो न भवति । जहाति, जहेति । लुपीति किम् ? जेहीयते ॥४६॥
वञ्च-सन्स-ध्वन्स-भ्रंश-कस-पत-पद-स्कन्दोऽन्तो नीः॥ ४.१.५० ।।
एषां यङन्तानां द्वित्वे सति पूर्वस्य नीरन्तोऽवयवो भवति । वनीवच्यते, वनीवचीति, सनीस्रस्यते, सनीस्र सीति, दनीध्वस्यते, दनीध्वंसीति, बनीभ्रश्यते, बनीभ्रशीति, चनीकस्यते, चनोकसोति, पनीपत्यते, पनीपतीति, पनीपद्यते, पनीपदीति, चनीस्कद्यते, चनीस्कन्दीति । दोघंविधानाध्रस्वो न भवति ॥५०॥
न्या० स०-वञ्चस्रस०-द्यतादिध्वंससाहचर्यात् स्रसूङ, इत्यस्यैव द्यतादिनसो ग्रहः, स्रसूङ प्रमादे इत्यस्य तु सास्रस्यत इति भवति । भ्रंशिरपि भ्रंशूङिति भ्वादिरेव गृह्यते भ्वादिध्वंस् साहचर्यात् । भृशुच् भ्रंशुच् इत्यस्य तु बाभ्रश्यत इत्येव ।
मुरतोऽनुनासिकस्य ।। ४. १. ५१ ॥
अकारात्परो योऽनुनासिकस्तदन्तस्य धातोर्यङन्तस्य द्वित्वे सति पूर्वस्य मुरन्तो भवति । बम्भण्यते, बम्भणीति, तन्तन्यते, तन्तनीति, जङ्गम्यते, जगमोति । यलवानामनुनासिकत्वे तन्तय्यते, तन्तयें, चंचल्यते, चञ्चल, ममते, मम । अननुनासिकत्वे, तातय्यते, तातयः, चाचल्यते, चाचलः, मामव्यते, मामवः । प्रत इति किम् ? तेतिम्यते, जोधुण्यते, बाभाम्यते । अनुनासिकस्येति किम् ? पापच्यते ॥५१॥
न्या० स०-मुरतो०-बामाम्यते इति-भामि क्रोधे इत्यस्य रूपम् , ये त्वनुनासिकान्तस्य धातोद्वित्वे सति पूर्वस्याऽत इति विशेषणं मन्यन्ते तन्मते बंभाम्यत इति तन्मतसंग्रहायाऽत इति षष्ठी व्याख्येया।
जप-जभ-दह-दश-भञ्ज-पशः॥ ४.१.५२ ॥
एषां गङन्तानां द्वित्वे सति पूर्वस्य मुरन्तो भवति । जंजप्यते, जंजपीति, जंजभ्यते, जंजभीति, दवाते, दंदहीति, दंवश्यते, दंदशीति, बम्भज्यते, बम्मजीति, पशिति सौत्रो पातः, पंपश्यते, पंपशीति । दशिति लुप्तनकारनिर्देशात् यङो लुप्यपि दंशेर्नलोपो भवति । अन्यस्तु नलोपं नेच्छति तेन दंदंशोति ॥५२॥
न्या० स०- जपजभ०-पस इति दन्त्यान्तं न्यासकारादयो मेनिरे, भोजस्तु तालव्या