________________
पाद-१, सूत्र-४५-४८ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[८७
ऋच्छव ऋचिच्छिषति, उच्छेत् उचिच्छिषति, अटाठ्यते । व्यञ्जनस्येति किम् ? स्वरस्य मा भूत् । अनादेरिति किम् ? आदेर्माभूत् - पपाच ॥४४॥
_न्या० स०-व्यञ्जनस्या०-ऋतिच्छिषतीति-अनेनाधस्तनच्छस्य लुकि निमित्ताभाव इति ऊर्ध्वस्थचस्य छः ततो 'द्वितीयतुर्ययोः' ४-१-४२ इत्यनेन छस्य चः ।
अघोषे शिटः ।। ४. १. ४५ ॥
धातोद्विरुके सति पूर्वस्य शिटस्तत्संबन्धिन्येवाघोषे परे लुग भवति, अनादिलुगपवादोऽयम् । चश्चोत, टिष्टेव, चस्कन्द । प्रघोषे इति किम् ? सस्नो । शिट इति किम् ? पप्सौ ॥४५॥
न्या० स०-प्रघोषे शिटः-तत्संबन्धिन्येवेति-अत्र तत्संबन्धिव्याख्याऽभावे सिद्ध सत्यारम्भ इति न्यायात् नियमार्थमेतदित्याशङ्का स्यात् , अघोष एव शिट: ततश्चनीकस्यते इत्यादिष्वेव स्यात् , न तु लालस्ये इत्यादिषु परत्राऽघोषाभावात् । चक्रम्यते इत्यत्र तु अनुस्वारस्य शिट्त्वेऽपि एवकारान्न लुक् , अत्र हि ह्यानन्तर्येण संबन्धमात्रं न तत्संबन्ध्येव म्वागमस्य पूर्वभक्तत्वात् ।
कङश्च ।। ४. १. ४६ ॥
धातोद्वित्वे सति पूर्वयोः ककारङकारयोर्यथासंख्यं चकारत्रकारौ भवतः । चकार, चखान, अङवे, जिङकारोयिषति ॥४६॥
न कवतेर्यङः ॥ ४. १. ४७ ॥
यङन्तस्य कवतेद्वित्वे सति पूर्वस्य कस्य चो न भवति । कोकूयते खरः, शनिर्देश: कौतिकुवत्योनिवृत्त्यर्थः । चोकयते, कवतिरव्यक्ते शब्दे, कुवतिरार्तस्वरे, कोतिः शब्दमात्रे, एषां पाठे शब्दमात्रार्थत्वेऽपि गत्यर्थत्वाविशेषे धावतिगच्छत्यादीनामिवार्थभेदः । यङ्लुपि च निषेधो न भवति । चोकवीति, अन्ये तु यङ्लुप्यपि प्रतिषेधयन्ति, कोकवीति । यङ इति किम् ? चुकुवे ।।४७॥
न्या० स०-न कवते-प्रतिषेधयन्तीति-प्रतिषेधं व्याचक्षते 'णिज्बहुलम्' ३-४-४२ । आगुणावन्यादेः॥४. १.४८॥
धातोर्यडन्तस्य द्विस्वे सति पूर्वस्यान्यावे मुरीरिरन्तवजितस्याकारो गुणश्चासत्रौ भवतः । पापच्यते, अटाटयते, चेचीयते, लोलयते, हांक-जेहीयते, पापचीति, बेभिदीति, लोलवीति । नैतावाकारगुणौ यनिमित्ताविति यङ्लुप्यपि भवतः । अन्यादेरिति किम् ? धनीवच्यते, यंयम्यते, नरीनृत्यते, नरिनति, नत्ति । ननु चात्र अपवादत्वान्यादय एव बाधका भविष्यन्ति किं न्यादिवर्जनेन ? सत्यम् , द्वित्वे सति पूर्वस्य विकारेषु बाधको न बाधक इति ज्ञापनार्थम् , तेन प्रचीकरदित्यत्र 'लघोर्दीर्घोऽस्वरादेः' (४-१-६४) इति सन्वत्कार्य न बाध्यते ॥४८॥