SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ५२ ] बृहद्वृत्ति-लन्याससंवलिते [पा० २. सू. ३७-३८.] सम्प्रति मन्यसे' इति वाक्यसूचनायाऽऽकारः प्रयुज्यते। तथा स्मृतेः सूचक आकारः प्रयुज्यते, ततः स्मृत्यर्थो निर्दिश्यते-प्रा एवं नु तदिति ।। ३६ ।। ओदन्तः ॥ १. २. ३७ ॥ प्रोकारान्तश्चादिः स्वरे परेऽसन्धिर्भवति । अहो अत्र, उताहो इदम्, अहो एतत्, अथो अस्मै, हंहो आगच्छ, अङ्घो एहि, नो इन्द्रियम् । चादि-5 रित्येव ? गवीश्वरः, अगौगौंः समपद्यत-गोऽभवत् ; मिथोऽत्र, मिथोशब्दः स्वरादिर्न तु चादिः, 'तिरोऽभवत्; नमोऽकरोत्; अदोऽभवद्' इत्यादिषु . लाक्षणिकत्वाच्च न भवति । 'अहो' इत्यादयोऽखण्डाश्चादय इति पृथग् योगः ।। ३७ ॥ न्या० स०-प्रोदन्त इति । 'समपद्यत' इति वृत्तावर्थकथनम्, न तु च्वेरारम्भक-10 मिदं वाक्यम्, “कृभ्वस्ति" [ ७. २. १ ६.] योगे एव च्वेविधानात् । गोऽभवदिति-अत्र "अधरण तसु०" [१. १. ३२.] इति, “गतिः" [ १. १. ६. ] इति वाऽव्ययत्वे सेलु पि "एदोतः पदान्तेऽस्य " [ १. २. २७. ] इति अलोपः । इत्याद्यपीति-'तिरस् नमस् अदस्' . इत्याद्यपि स्वरादिर्न तु चादिरित्यर्थः । अहो इत्यादय इति-अह+उ-अहो इति, उत+ अह+उ-उताहो इति, प्राह + उ-आहो इत्यादावर्थाभेदात् चादिसमुदायस्यापि चादित्वात्15 पूर्वेणैव सिद्धत्वादनर्थकमिदमिति परस्याशयः, नैवम्-एकनिपातत्वाच्चादिषु तथैव पाठात् पूर्वेण न प्राप्नोतीति पृथग्योगारम्भ इत्याह-प्रहो इत्यादय इति ।। ३७।। सौ नवेतौ ॥ १. २. ३८ ॥ सिनिमित्तो य अोदन्तः स इतौ परेऽसन्धिर्वा भवति । पटो ! इति, पटविति; साधो ! इति, साधविति । साविति किम् ? अहो इति । गवित्य-20 यमाह, गौरिति वक्तव्येऽशक्त्या 'गो' इत्युक्तमनुक्रियते, स्याद्वादाश्रयणाच्चानुकार्याऽनुकरणयोरभेदविवक्षायामसत्यर्थवत्त्वे विभक्तिर्न भवति । इताविति किम् ? पटोऽत्र ।। ३८ ।। __न्या० स०-सौ नवेत्यादि-ग्रामन्न्यार्थविहितः सिरत्र ग्राह्यः, अन्येन स्वरस्य व्यवधानाद् प्रोकारस्यासम्भवाच्च प्राप्तेरभावात् प्रतिषेधोऽनर्थकः । 'वा' इत्युक्तऽपि विकल्पे25 सिद्ध 'नवा' इत्यधिकारार्थ कृतम्, तेन सर्वत्र यत्र नवेति तत्राधिकारः, यत्र तु वेति तत्र नाधिकार इति ।। ३८ ॥
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy