________________
[पा० २. सू० ३६-४०.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ ५३
ॐ चोञ् ॥ १.२. ३६ ॥
उब् शब्दश्वादिरितिशब्दे परे वाऽसन्धिर्भवति, प्रसन्धिपक्षे च उञ् 'ऊँ' इत्येवंरूपो दीर्घोऽनुनासिको वा भवति, तथा च सति त्रैरूप्यं सिद्धं भवति--उ इति, ऊँ इति, विति । इतावित्येव ? उ उत्तिष्ठ । ञित्करणं स्वरूपपरिग्रहार्थम्, तेन विकृतस्य न भवति --- अह + उ ग्रहो, ग्रहो इति; एवम् - उताहो इति । 5 अथ ॐ इत्येव चादिषु पठ्यताम्, किमादेशेनं ? नैवम् - - तस्यानितावपि प्रयोगः प्रसज्येत तन्निषेधार्थमादेशवचनम् ।। ३६ ।
न्या० स० ॐ चोञिति । तेन विकृतस्येति - विकृतस्यात्रितो विकृतौ सत्याम्, स्वरूपहानेरित्यर्थः, अयमभिप्रायः - द्वाविमावुकारौ -एको निरनुबन्धोऽपरः सानुबन्ध इति, तत्र निरनुबन्धस्तस्य 'अहो' इत्यत्रौकारादेश इष्यते नापरस्य, अतोऽहो इत्यत्रात्रित एव 10 कृतादेशत्वादिदं सूत्रं न प्रवर्तत इत्यर्थः श्रत एव 'जान्वस्य रुजति' इत्यत्रोत्तरसूत्रेण वत्त्वं सिद्धम्, उञा सह जानोरकारस्य दीर्घीभूतत्वात्, अथवा अत्र सूत्रे उकारप्रश्लेषाद् 'उ उत्र ऊञ' इत्युकारेरण उञो विशेषणाद् उकाररूपस्य उञो ग्रहरणा 'अहो' इत्यादौ न भवति, उत्तरत्र तु जात्याश्रयणाद् दीर्घीभूतस्यापि 'जान्वस्य रुजति' इत्यादौ वत्वं भवति ।। ३६ ॥
15
अञ्वर्गात् स्वरे वोऽसन् ॥ १. २. ४० ॥
अकारवजितेभ्यो वर्गेभ्यः पर उञ् स्वरे परे वकारो वा भवति, स चासन्--अभूतवत् । क्रुङ्वास्तेक्रुङ्ङ प्रास्ते ; किम्वावपनम्, किमु श्रावपनम्, किम्बुष्णम्, किमु उष्णम्; किम्विति, किमु इति, किमूं इति, किं विति, किवँ विति; जानु उ जानू, जान्वस्य रुजति, जानू अस्य रुजति; तद् वस्य 20 मतम्, तदु अस्य मतम् । वर्गादिति किम् ? स्वरु उपैति अन्तरु उपैति । ञिति किम् ? घञ एति । स्वर इति किम् ? किमु गच्छति । असत्त्वाद् द्वित्वमनुस्वारानुनासिकाभावश्च ।। ४० ।।
न्या० स०- वर्गेत्यादि - नत्र तत्पुरुषगर्भकर्मधारयात् पञ्चमी । अत्र 'असन्' इत्युक्ते यदि वकाररूपादेशस्य स्वरूपेरणाभावो विधीयते तदाऽऽदेश विधानमनर्थक स्यात्, 25 अथ उञ रूपस्य स्थानिनो निवृत्त्यर्थं तदिति चेत् ? सत्यम् - एवं सति उञ एव निवृत्ति कुर्यात्, तस्मार 'असन्' इति मुख्यार्थबाधायां गुरणकल्पनाऽऽश्रीयत इत्याह- प्रसन्- प्रभूतवदिति - प्रसिद्धवत् प्रकृतवदित्यर्थः, ततश्च स्थाम्याश्रय कार्यं सिद्ध ं भवति, ननु 'असन्'