________________
[पा० २. सू० ३६ . ]
श्री सिद्ध हेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ ५१
चादि स्वरोsनाड् ॥ १.२. ३६ ॥
1
आङ्वजितश्वादिरव्ययसंज्ञकः स्वरे परेऽसन्धिर्भवति । अपेहि, आ एवं किल मन्यसे, आ एवं नु तत्, इ इन्द्रं पश्य, ई ईदृशः संसारः, उ उत्तिष्ठ, ऊ ऊषरे बीजं वपसि ए इतो भव, प्रो प्रश्रावय । चादिरिति किम् ? ! “तनेर्डउः” 5 [ विष्णो ! ] आगच्छ - प्रागच्छ । कथं तितउः - परिवपनम् ? [ उणा० ७४८. ] इति डउविधानबलादसन्धिर्भविष्यति । उत्तरत्रान्तग्रहणादिह केवलो गृह्यते, तेनेह न भवति - चेति, इतीह, नन्विति, वेति । स्वर इत्येव ? जानु उ-जानू । स्वरे परे इति प्रत्यासत्तेस्तन्निमित्तकसन्धिप्रतिषेधादिह दीर्घत्वलक्षणः सन्धिर्भवत्येव - जानु उ अस्य रुजति - जानू ग्रस्य रुजति । केचित् तु चाद्यचादिस्थानस्याचादिरूपत्वात् स्वरनिमित्तकमपि सन्धिमिच्छन्ति - 10 जानु उ अस्य रुजति- जान्वस्य रुजति । अनाङिति किम् ? ईषद् उष्णम्-ओष्णम्, आ इहि - एहि, श्र उदकान्ताद् - प्रोदकान्तात् प्रियप्रोथमनुव्रजेत्, आ आर्येभ्यः - श्रार्येभ्यो यशो गतं गौतमस्य,
"ईषदर्थे क्रियायोगे मर्यादाऽभिविधौ च यः ।
एतमातं ङितं विद्याद् वाक्य - स्मरणयोरङित् ” ।। ३६ ।। 15
न्या० स० – चादिरित्यादि । 'अनाङ' इत्यत्र पर्युदासाश्रयणेन सदृशग्रहणात्, चादिना स्वरस्य विशेषरणात् तदन्तत्वासम्भवात् सामानाधिकरण्यलाभात् केवलस्य ग्रहणमित्याह - प्रावजितश्चादिरव्ययसंज्ञकः स्वर इति वृत्तौ तु द्वितीयमुत्तरम् । श्रा एवं किल मन्यसे इति - अत्राकारो वाक्यालङ्कारे, पूर्ववाक्यार्थविपर्ययद्योतको वा । ऊष्यते पीड्यते बीजादि वस्त्वनेनेति "व्यञ्जनाद्०" [५. ३. १३२. ] घञि ऊषः सोऽस्मिन्नस्ति "मध्वा-20 दिभ्यो रः” [ ७. २. २६. ] इति रे ऊषरः । शृणोगि प्रति श्राव:, श्रोः श्राव:ओश्रावः, तं करोति णिचि पूर्ववद् हो 'प्रोश्रावय' इति क्रियापदमखण्डम् । श्रा उदकान्तादिति प्रत्राङ मर्यादायाम् तेन प्रियप्रोथानुव्रजनस्योदकमर्यादाभाव प्राङा द्योत्यते । श्रा श्रार्यभ्य इति प्रत्राङ अभिविधौ, तेन यशोगति प्रति श्रार्याणाम भविधित्वं द्योत्यते । मर्यादाऽभिविधौचेति-अवधिमताऽसम्बद्धोऽवधि:, अभिविधिः - अभिव्याप्तिः, अवधिमपि यो25 व्याप्नोतीत्यर्थः, अवधिमताऽसम्बद्धो योऽवधिः स मर्यादा, त परित्यज्य यो वर्तत इत्यर्थः । वाक्यस्मरणयोरिति वाक्यशब्देन वाक्यार्थ उच्यते, चादीनां द्योतकत्वाद अर्थस्यैव द्योत्यत्वात्, न तु शब्दस्येति । आ एवं किल मन्यसे पूर्व प्रक्रान्तवाक्यार्थस्यान्यथात्वद्योतनायायमत्राकारः, अन्ये तु वाक्यशब्देन वाक्यमेवाहुः, तत श्रा एवं किल मन्यसे, 'नैवं पूर्वममंस्थाः,