________________
५० ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० ३५.]
मुनी इह, साधू एतौ, अमू इति, कुण्डे अत्र, माले इति, पचेते इति, पचेथे इति, पचावहे आवाम् । ईदूदेदिति किम् ? वृक्षावत्र । द्विवचनमिति किम् ? कुमार्यत्र । एषां प्लुतानामितावपि सन्धिर्न भवति-अग्नी३ इति, वायू३ इति । स्वर इत्येव ? तव ई-कामौ तवे । प्रत्यासत्तेः स्वरनिमित्तककार्यप्रतिषेधादिह भवत्येव-तव ई तवे आसाते । केचित् तु “मणीवोष्ट्रस्य लम्बेते 5 प्रियौ वत्सतरौ मम" [महाभारते] इति प्रयोगदर्शनाद् 'मणी इव-मणीव' इत्यादावसन्धिप्रतिषेधं वर्णयन्ति, तदयुक्तम्---वाशब्देनोपमानार्थेन सिद्धत्वात्, "मणी इवोद्भिन्नमनोहरत्विषौ” इत्यादावसन्धिदर्शनाच्च । अन्ये तु यथादर्शनं सन्धिमसन्धि चेच्छन्ति---मणीव, दम्पतीव, रोदसीव, मणी इव ।। ३४ ॥
न्या० स०-ईदेदित्यादि-'अग्नी३ इति' इत्यादौ "दूरादामन्त्र्यस्य०" [७.४.६६.]10 इति प्लुतः। तो इति-यथा स्वरे परे सन्धिकार्यनिषधस्तथा पूर्वस्थितेऽपि कि नेति ? सत्यम्-*सप्तम्या निर्दिष्टे पूर्वस्य* इति न्यायात् स्वरापेक्षया पूर्वदेशव्यवस्थितस्यैव ईदादेः सन्धिनिधः, न त पूर्वस्थिते स्वरे। यद्यप्येवं यत्र परत्र स्वरो भवति-'तवे आसाते' इति, तत्र पूर्वेणापि सह सन्धिप्रतिषेधः प्राप्नोतीत्यत आह-प्रत्यासत्तेरित्यादि । अयमर्थ:यस्मिन् सति यद् भवति तत् तस्य निमित्तमिति परस्वराश्रितत्वात् प्रथमं यत्वस्य तदनु15 अयादेशस्य च निषेधः, ते एव च परस्य स्वरस्य प्रत्यासन्न, एत्वं तु परं स्वरमन्तरेणापि भवतीति न तत् स्वरनिमित्तम्, न तत् प्रत्यासन्न चेति प्रत्यामत्तिन्यायार तन्निमित्तकस्यैव कार्यस्य निपध:, नातन्निमित्तकस्येति । वाशब्देनेत्यादि-भाष्यकारवातिककारयोरसम्मतत्वाच्चेति । 'दम्पती' इत्यत्र राजदन्तादित्वाद जायाया दम्भावः ।। पृथिवी च पृषोदरादित्वाद 'रोदसि' इदन्त प्रादेशः, ततो द्विवचनम् ।। ३४ ।।
20
अदोमु-मी ॥ १. २. ३५ ॥
अदस्शब्दसम्बन्धिनौ 'मु मी' इत्येतावसन्धी भवतः स्वरे परे । अमुमुईचा, अमी प्रासाते, अमी अश्वाः । अदसिति किम् ? अम्यत्र ॥ ३५ ।।
न्या० स०-अद इत्यादि-अदसो मु-मी इति विग्रहः । ननु अमुष्य मु-मी इति विग्रहः प्राप्नोति, कथमदस इति ? सत्यम् अविवक्षि गर्थस्य प्रायोगिकस्यादस्शब्दस्यात्र25 प्रयोगः, तत्र तु सार्थको गृह्यत इति अदसशब्दसम्बन्धिकार्याभावेऽदस इति भवति । ह्रस्वत्वाभावे तु स्वैरादिवत् सर्व द्रष्टव्यम्, सौत्रत्वाद् वा समाहारेऽपि न ह्रस्वः । प्रम्यत्रति-"अम गती" इत्यतो भावे घत्रि अमः, सोऽस्यास्तीति इन् ।। ३५।।