________________
[पा० २. सू० - १०.] श्री सिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
ऋत्यारूपसर्गस्य ॥ १. २. ६ ॥
उपसर्गस्य संबन्धिनोऽवर्णस्य स्थाने ऋकारादौ धातौ परे परेण ऋकारेण सहितस्यारादेशो भवति । सर्वापवादः । प्रार्च्छति । परार्च्छति । प्राति । परार्ध्नाति । ऋतीति किम् ? उपेतः । उपसर्गस्येति किम् ? इहच्छति इहऋच्छति । येन धातुना युक्ताः प्रादयस्तं प्रति गत्युपसर्ग - 5 संज्ञाः तेनेह न भवति - प्रगता ऋच्छका अस्मात् प्रच्छेको देशः, एवम्, प्रर्षभं प्रश्यं वनम् । प्रारिति वर्तमाने पुनरार्ग्रहणमारेव यथा स्यादित्येवमर्थम्, तेनेहोत्तरयोश्च ह्रस्वत्वं बाध्यते ।। 8 ।।
[ ३६
न्या० स० --- ऋत्येत्यादि - उपसृत्य धातुमर्थविशेषं सृजतीति लिहाद्यचि न्यङ्कवादित्वाद् गत्वे उपसर्ग: । सर्वापवाद इति पूर्वसूत्रविहित प्रारादेशः " श्रवर्णस्य ० "10 [ १. २. ६. ] इत्यर एव बाधको न ह्रस्वस्य प्रयं त्वरो ह्रस्वस्य च सर्वस्य प्राप्नुवतो बाधक इत्यर्थः । प्राच्र्च्छतीति ऋच्छेरतेर्वा "श्रौति०" [५. २.१०८ . ] इति ऋच्छादेशे येन धातुनेति यद्येवं प्ररणसं मुखमित्यादौ प्रशब्दस्योपसर्गत्वाभावे “उपसर्गात्" [ ७. ३.१६२. ] इत्यनेन नसादेशो न प्राप्नोति, उच्यते यत्रोपसर्गत्वं न संभवति तत्रोपसर्गशब्देन प्रादयो लक्ष्यन्ते, न तु संभवत्युपसर्गत्वे इति । नन्वेवं प्रगता ऋच्छका यस्मात् स प्रच्छेक 15 इत्यादी प्रादित्वेन प्रशब्दस्योपसर्गत्वादार् प्राप्नोति नैवम् - प्रशब्दोऽत्र गतार्थमन्तर्भाव्य प्रवर्त्तमानो रंगकप्रत्ययस्यार्थं कर्तारं विशिनष्टि न ऋच्छेर्धातोरर्थमित्येतद्धातुसंबन्धाभावाद् एनं प्रति अनुपसर्गत्वमस्योच्यते इति ।। 8 ।।
नाम्नि वा ॥ १.२.१० ॥
उपसर्गसम्बन्धिनोऽवर्णस्य स्थाने ऋकारादौ नाम्नि - नामावयवे धातौ20 परे परेण ऋकारेण सहितस्य 'आर्' प्रदेशो वा भवति । प्रार्षभीयति, प्रर्षभीयति । केचित् तु पक्षे ह्रस्वत्वमपि मन्यन्ते - प्रऋषभीयति । उपसर्गस्येत्येव ? इहर्षभीयति । ऋतीत्येव ? उपोष्ट्रीयति, ऋकारमिच्छति-उपर्कायति ।। १० ।।
व्या० स० - नाम्नीत्यादि । नाम्नीत्यनेन ऋकारकादिर्धातुः सामानाधिकरण्येन 25 विशेषयितुं न शक्यत इत्यवयवद्वारेण ऋकारादिसमुदायो धातुर्नाम्नीत्यनेन विशेष्यत इत्याह-- नामावयवे इति ।। १० ।।