SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ३८ ] बृहद्वृत्ति- लघुन्यास संवलिते [ पा० २. सू०७-८ . ] ऋणे प्र-दशार्ण-वसन - कम्बल-वत्सरवत्सतरस्यार् ।। १.२७ ॥ प्रादीनामवर्णस्य ऋरणशब्दे परे परेण ऋकारेण सहितस्यारित्ययमादेशो भवति । अरोऽपवादः । प्रगतमृणं प्रार्णम् । दशानामृणं दशार्णम्, दश ऋणान्यस्य दशार्णः क्षत्रियः, दश ऋरणानि जलदुर्गाण्यस्यां दशार्णा नदी । 5 ऋणस्यावयवतया संबन्धि ऋरणम् - ऋरणाम् । वसनानामृणम् - वसनार्णम् । एवम्, कम्बलार्णम् । वत्सरार्णम् । वत्सतरार्णम् । समानानामिति बहुवचनस्य व्याप्त्यर्थत्वेनोक्तत्वादिहोत्तरत्र च ह्रस्वोऽपि भवति - प्रऋणम्, दशऋणमित्यादि । वत्सरशब्दस्याऽऽरं नेच्छन्त्येके ।। ७ ।। न्या० स० - ऋरणे प्रेत्यादि - दश ऋरणानि प्रस्येति-वर्णानुपूर्वी विज्ञानार्थं व्युत्पत्ति- 10 मात्रमेतत् यावता संज्ञाशब्दोऽयम् । यद्यपि परत्वात् सर्वत्रार् प्राप्नोति तथाप्यर एव बाधक आरादेशो न ह्रस्वस्येत्याह- समानानामिति ॥ ७ ॥ ऋते तृतीयासमासे ॥ २.१.८ ॥ ऋतशब्दे परे यदवरर्णं तस्य स्थाने परेण ऋकारेण सहितस्याऽऽरित्ययमादेशो भवति, तौ चेन्निमित्तनिमित्तिनावेकत्र तृतीयासमासे भवतः । शीतेन 15 ऋतः - शीतार्तः । दुःखेन ऋतः - दुःखार्तः । ह्रस्वोऽपि भवति - शीतऋत:, दुःखऋतः । ऋत इति किम् ? सुखेतः, दुःखेतः । तृतीयाग्रहणं किम् ? परमर्तः । समास इति किम् ? सुखेनर्तः, दुःखेनर्तः । ऋतेन कृतः - ऋतकृतः, परमश्चासौ ऋतकृतश्च परमर्तकृत इत्यत्र तु निमित्त निमित्तिनौ नैकत्र तृतीयासमास इति न भवति । श्रवर्णस्येत्येव ? पितृ तः । कथम् " क्षुधार्तः सन् 20 शालीन् कवलयति मांस्पाकवलितान् ” ? क्षुधुशब्दस्य हि व्यञ्जनान्तत्वात् 'क्षुदृत' इति प्राप्नोति नैवम् - प्राङ्पूर्व ऋते तृतीयान्तस्यासमस्तस्यायं प्रयोगः । आ ऋत इति उत्तरेणार् - प्रार्तः, तत क्षुधेत्यनेन संबन्धः । यस्य तु व्यञ्जनान्तादप्याप् तन्मते - क्षुधया ऋत इति समस्तप्रयोग एवायम् ॥ ८ ॥ न्या० स० - ऋते इत्यादि । क्षुधार्त इति श्रत्र तृतीयान्तस्य 'क्षुघ्' शब्दस्य 25 “ओमाङि” [ १.२.१८ ] इति श्रालोपे प्रसिद्ध बहिरङ्गमन्तरङ्ग इति न्यायान्न धस्य दत्वम् ।। ८ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy