________________
[ पा० २. सू० ५-६ ]
श्री सिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ ३७
इत्यादेशौ वा भवतः, तौ च ऋकार-लृकारौ ऋता लृता च सह ऋकारस्य वा भवतः । ऋता – पितृषभः, पितृ षभः, पितृऋषभः । लृता - होत्लृ कारः, पक्षे होतृकारः. होतृलृकारः । तौ च - पितृषभः, होत्लृकारः, पक्षे यथाप्राप्तम् । अत्रापि ऋवर्णस्य स्थानित्वमिच्छन्त्येके ।। ४ ।।
न्या० स० - ऋतो० इत्यादि - होत्लुकार इति - होतुल कार इति षष्ठीसमासः, होतृ- 5 संबन्धी होत्रा लिखित उच्चारितो वा ऌकार इत्यर्थः ।। ४ ।।
ऋ स्तयोः ॥ १.२.५ ॥
तयोः-पूर्वस्थानिनोलृ कार - ऋकारयोः स्थाने यथासंख्यमृता लृता च परेण सहितयोॠ कारो द्विमात्र आदेशो भवति । कृ षभः । होतृ कारः ॥५॥
न्या० स० -- ॠस्तयोरिति । अथ ऋकार-ऌकारयोः सजातीयत्वस्य पूर्वं प्रति 10 पादितत्वात् " समानानां तेन० " [ १.२.१.] इत्यनेनैव द्विमात्र ऋकारः सेत्स्यति, किमनेन ? न च वाच्यं क्लॠषभ इत्यत्र ऌकारस्य स्थानित्वाद् दीर्घत्वे, प्रत्यासन्नत्वाद्
कारः स्यादित्यादि यतो द्वयोः स्थानित्वमुक्तं तत्र ऋकारमेव स्थानिनमाश्रित्य दीर्घे क्रियमाणे प्रत्यासत्त्या ऋ कार एव भविष्यति, सत्यम् - स्यादेवं यदि ऋकारस्यैव स्थानित्वे किञ्चिन्नियामकं स्यात्, यावता दद्वयोः षष्ठी - तृतीयानिर्दिष्टयो: स्थानित्वमिति पूर्वं परं 15 वा ऌकाररूपं स्थानिनमाश्रित्य दीर्घे क्रियमाणे ऌकारोऽपि स्यात्, ऋकार एव चेष्यते इत्येतदर्थमस्यारम्भ इति ॥ ५ ॥
अवर्णस्येवर्णा दिनैदोदरल् ॥ १. २. ६ ॥
अवर्णस्य स्थाने इवर्णोवर्ण-ऋवर्ण-लृवर्णैः परैः सहितस्य यथासंख्यमेत् ओत् अर् अल्' इत्येते प्रदेशा भवन्ति । देवेन्द्रः । तवेहा । मालेयम् 120 सेक्षते । तवोदकम् । तवोढा । गङ्गोदकम् । सोढा । 'वृक्ष इन्द्रम्, त इन्द्रमित्यादौ च ङौ जस इकारे चैकपदाश्रयत्वेनान्तरङ्गमेत्वमेव भवति, न तु परपदाश्रितं बहिरङ्गमिकारस्य दीर्घत्वम् । परमर्षिः । तवर्कारः । महर्षिः । सर्कारेण । तवल्कारः । सल्कारेण । त्रिमात्रादेरपि स्थानिन: स्थाने द्विमात्रावेवैदोतौ भवतः, सूत्रे तयोरेव विवक्षितत्वात् । प्रवर्णस्येति किम् ? दधीदम् । मधूदकम् 125 पितृ षभः । क्लृकारः । इवर्णादिनेति किम् ? दण्डाग्रम् ।। ६ ।।