________________
[पा० १. सू० ३५-३६]
श्रीसिद्धहेमचन्द्रचब्दानुशासने प्रथमोऽध्यायः
[ ३१
तत्वादलक्षणमेतद् इत्याह-वत्तसीति । तद्धितस्येत्युपलक्षणम्, तत: "धातोरनेकस्वरात्" [ ३. ४. ४६. ] इत्यादिना विहितस्याप्यामो ग्रहणम्, तेन पाचयाञ्चऋषेत्यादौ टालोपे पदत्वादनुस्वारसिद्धिः । न चोपलक्षणात् षष्ठीबहुवचनस्यापि ग्रहणं किं न स्यादिति वाच्यम्, यतो य आम् आमेव भवति स एव गृह्यते, अयं तु नाम् साम् वा भवतीति । यद्वा वत्तसी अविभक्ती, तत्साहचर्यादामोऽपि अविभक्त रेव ग्रहणम्, ततो दरिद्राञ्चकृ-5 वद्भिरित्यत्र क्वसुस्थाननिष्पन्नस्य पचतितरामित्यत्र “कित्यायेऽव्यय०" [७. ३. ८. ] इति विहितस्य च ग्रहणं भवति, यत एतावेव तयोर्वत्-तस्योरविभक्तित्वेन हिताविति व्युत्पत्त्या तद्धितावित्यभिधीयते। अस्मिश्च व्याख्याने "कित्याद्येऽव्यय०" [ ७. ३. ८.] इत्यनेन इत्यन्तेन इदमेव सूत्रं संपूर्ण गृह्यते, आदिशब्देन तु "धातोरनेकस्वर०" [ ३. ४. ४६. ] इति विहितस्य क्वसु-कानस्थानस्येति । तथा दरिद्राञ्चकृवद्भिरित्यत्रामन्तस्याव्ययत्वेऽपि10 कत्सिताद्यर्थ "अव्ययस्य को द च" [७.३.३१.] इति अक न भवति, अपरिसमाप्तार्थत्वेनामन्तस्य कुत्सितार्थासंभवाद् इति । उच्चस्तरामिति-"क्वचित् स्वार्थे" [ ७. ३. ७. ] इति प्रकृष्टे चार्थे तरप् ॥ ३४ ।।
क्त्वातुमम् ॥ १. १. ३५ ॥ . क्त्वा, तुम्, अम् इत्येतत्प्रत्ययान्तं शब्दरूपमव्ययसंज्ञं भवति । क्त्वा-15 कृत्वा, हृत्वा, प्रकृत्य, प्रहृत्य । तुम्-कर्तुम्, हर्तुम् । अमिति गम्ख्णमोरुत्सृष्टानुबन्धयोर्ग्रहणम्, न द्वितीयैकवचनस्य क्त्वा-तुम्साहचर्यात् । यावज्जीवमदात् ।स्वादुंकारं भुङ्क्त ।। ३५ ।।
न्या० स०-क्त्वा-तुम०-क्त्वेति ककारोऽसंदेहार्थः, अन्यथा त्वा इति निर्देशे संदेहः स्यात्-किमयं क्त्वाप्रत्ययस्य निर्देशः ? किं वा विदितं गोत्वं यकाभिस्ता विदित-20 गोत्वा इति त्वप्रत्ययस्याबन्तस्य ? इति, न द्वितीयैकवचनस्येति । द्वितीयैकवचनान्तस्याव्ययत्वे "अव्ययस्य को द् च" [७. ३. ३१. ] इति अक् स्यात् । तथा देवस्य दर्शनं कुवित्यादौ "तृन्न दन्त०" [२. २. १०.] इत्यनेन षष्ठी न स्यात् । नन्वेवं ह्यस्तन्यद्यतन्यमन्तस्याव्ययत्वं कथं निषिध्यते ? सत्यम्-द्वितीयं च तदेकवचनं चेति विग्रहे तस्यापि संग्रहः, द्वितीयापेक्षया द्वितीयं चैकवचनं शस्तन्य द्यतन्योरमिति ।। ३५ ।।
25
गतिः ॥ १. १. ३६ ॥
गतिसंज्ञाः शब्दा अव्ययसंज्ञा भवन्ति । अदःकृत्य, अत्राऽव्ययत्वे 'अतः कृ-कमि-कंस-कुम्भ-कुशाकर्णी-पात्रेऽनव्ययस्य” [ २. ३. ५. ] इति सकारो न भवति ।। ३६ ।।