SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ [पा० १ सू० ३३-३४.] ३० ] बृहद्वृत्ति- लघुन्याससंवलिते इति पदत्वे "सपूर्वात् प्रथमान्ताद् वा " [ २. १ ३२. ] इति विकल्पप्रसङ्गः, तस्मात् तदन्तः समुदाय एवाव्ययम्, न प्रत्ययमात्रमिति । अर्जुनत इति प्रत्र सप्तम्येकवचनस्य लुप् ।। ३२ ।। विभक्तिथमन्ततसाद्याभाः ।। १. १. ३३ ।। विभक्त्यन्त प्रतिरूपकाः, थमवसाना ये तसादयः प्रत्ययास्तदन्तप्रतिरूप - 5 काश्च शब्दा अव्ययसंज्ञा भवन्ति । अहंयुः, शुभंयुः । अस्तिक्षीरा ब्राह्मणी । कुतः, यथा, तथा, कथमिति । अहम् १; शुभम् कृतम्, पर्याप्तम् २; येन, तेन, चिरेण, अन्तरेण ३; ते, मे, चिराय, अह्नाय ४; चिरात्, अकस्मात् ५; चिरस्य, अन्योन्यस्य, मम ६; एकपदे, अग्रे, प्रगे, प्राहणे, हेतौ, रात्रौ, वेलायाम्, मात्रायाम् ७ । एते प्रथमादिविभक्त्यन्तप्रतिरूपकाः । अस्ति, 10 नास्ति, असि, अस्मि, विद्यते भवति, एहि, ब्रूहि, मन्ये, शङ्क े, अस्तु, भवतु, पूर्यते, स्यात्, ग्रास, ग्रह, वर्त्तते, नवर्त्तते, याति, नयाति, पश्य, पश्यत, प्रादह, आदक, प्रत इति तिवादिविभक्त्यन्तप्रतिरूपकाः ।। ३३ ।। न्या० स० विभक्ति० - प्राबङ्केति प्रत्र “तकु कृच्छ्रजीवने" इत्यस्य दकुरिति पठन्ति ।। ३३ ।। स्थाने 20 वत्तस्याम् ॥ १. १. ३४ ।। तत्-तस्याम्प्रत्ययान्तः शब्दोऽव्ययसंज्ञो भवति । वत् - तसिसाहचर्याद् 'आम्' इति तद्धितस्य " किंत्याद्येऽव्यय० " [ ७. ३. ८. ] इत्यादिना विहितस्यामो ग्रहणम् । मुनेरहं मुनिवद् वत्तम्, "तस्यार्हे क्रियायां वत्" [ ७. १. ५१. ] इति वत् । क्षत्रिया इव क्षत्रियवद् युद्धयन्ते, “स्यादेरिवे" 25 इति वत् । पीलुमूलेनैकदिक् - पीलुमूलतो विद्योतते विद्युत्, “ तसि:" [ ६. ३. २११. ] इति तसिः । उरसैकदिक्- उरस्तः, “यश्चोरस : " [ ६. ३. २१२. ] इति तसिः । उच्चैस्तमाम् [ ७. १. ५२. ] आम्—उच्चैस्तराम् । 11 38 11 न्या० स०-वत्तस्याम्० - प्रामिति षष्ठीबहुवचनस्य तद्धितस्य परोक्षास्थान- 30 निष्पन्नस्य चाविशेषेण त्रयाणामपि ग्रहणं प्राप्नोति द्वयोरेव चेष्यतेऽतोऽतिव्याप्त्युपह
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy