SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ३२ ] बृहद्वृत्ति-लघुन्याससंवलिते पा० १. सू० ३७-३८.] अप्रयोगीत् ॥ १. १. ३७ ॥ इह शास्त्र उपदिश्यमानो वर्णस्तत्समुदायो वा यो लौकिके शब्दप्रयोगे न दृश्यते स एत्यपगच्छतीति इत्संज्ञो भवति । अप्रयोगित्वानुवादेनेत्संज्ञाविधानाच्चास्य प्रयोगाभावः सिद्धः । उपदेशस्तु धातु-नाम-प्रत्यय-विकाराऽऽगमेषु कार्यार्थः। धातौ-एधि, एधते। शीङ्-शेते; इङित्त्वादात्मनेपदम् । 5 यजी-यजते, यजति । चिंग्ट्-चिनुते, चिनोति । कण्डूग्-कण्डूयते, कण्डूयति; ईगित्त्वात् फलवत्यात्मनेपदम् । टुदु-दवथुः; ट्वित्त्वादथुः । नाम्नि-चित्रङ् . आश्चर्ये चित्रीयते। माङ्-मा भवान् कार्षीत् ; अत्र माङयद्यतनी। प्रत्यये[वित्-] भवति । विकारे-[ख्यांग्-] व्याख्यातासे, व्याख्यातासि । आगमे-- [इट्-] पपिथ। इत्प्रदेशाः-"इडितः कर्तरि" [ ३. ३. २२.] इत्यादयः10 ।। ३७ ॥ न्या० स०-अप्रयोगी०-प्रयोगः शब्दस्योच्चारणम्, सोऽस्यास्तीति प्रयोगी, न प्रयोगी अप्रयोगी इति सज्ञिनिर्देशः, इदिति च संज्ञेति। लौकिक इति-लोकस्य ज्ञाते "लोकसर्वलोकाज्ज्ञाते" [ ७. ४. ८४. ] इतोकण ।। ३७ ।। अनन्तः पञ्चम्याः प्रत्ययः॥ १.१.३८ ॥ पञ्चम्यर्थाद् विधीयमानः शब्दः प्रत्ययसंज्ञो भवति । अनन्त:-ने चेदन्तशब्दोच्चारणेन विहितो भवति। "नाम्नः प्रथमैकद्विबहौ" [ २. २. ३१. ] वक्षः, वक्षौ, वृक्षाः। “स्त्रियां नृतोऽस्वस्रादेर्डीः" [ २. ४. १. ] राज्ञी, की । “पात्" [ २. ४. १८. ] खट्वा । “गुपौधूप-विच्छि-परिण-पनेरायः" [ १. ४. १. ] गोपायति, धूपायति । "ऋवर्ण-20 व्यञ्जनाद् घ्यण" [ ५. १. १७. ] कार्यम्, पाक्यम् । अनन्त इति किम् ? अन्तशब्दोच्चारणेन विहितस्याऽऽगमस्य मा भूत्, यथा “उदितः स्वरान्नोऽन्तः" [ ४. ४. ६६. ] इत्यादि । प्रत्ययप्रदेशाः-"प्रत्यये च" [ १. ३. २. ] इत्यादयः ।। ३८ ।। न्या० स०-अनन्त:०-न विद्यतेऽन्तशब्दो वाचकोऽभिधायको यस्य स तथा 125 पञ्चमीति प्रत्ययोऽभिधीयते, सच प्रकृत्यविनाभावीति तेन प्रकृतिराक्षिप्यते, तया चार्थ
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy