SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ २८ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० १. सू० ३१.] अभावे । १०५ क्षमा सहने । १०६ शु पूजायाम् । १०७-१०८ सहसा, युगपत् एककाले । १०६ उपांशु एकान्ते। ११०-१११-११२ पुरतस्, पुरस्-पुरस्तात् अपार्थे । ११३ शश्वत् निरन्तरे। ११४ कुवित् योगप्रशस्तिभावेषु। ११५-११६ प्राविस्-प्रादुस् द्वौ प्राकाश्ये । इति स्वरादय इति-इतिशब्द एवंप्रकारार्थः, एवंप्रकारा: स्वरादयो गृह्यन्ते न त्वेतावन्त इत्यर्थः । यत: "इयन्त इति संख्यानं निपातानां न विद्यते । प्रयोजनवशादेते निपात्यन्ते पदे पदे" ।। १० ।। प्राकृतिगणार्थमिति-प्राक्रियतेऽनयेति प्राकृतिर्वणिकाप्रकारः, तस्या गणस्तदर्थमिति । "अव्ययीभावस्य चाव्ययत्वं नाङ्गीकर्तव्यम्, तदङ्गीकारेण हि उच्चकैर्नीचकैरित्यादिवद् ‘उपाग्नि, प्रत्यग्नि' इत्यत्रापि “अव्ययस्य को द् च" [७. ३. ३१.] इति अक्10 प्रसज्येत । तथा उपकुम्भमन्यमित्यादौ 'दोषामन्यमहः' इत्यादिवद् मागमप्रतिषेधः स्यात् । अथाव्ययीभावस्य "तृप्तार्थपूर्णाव्यय०" [३. १. ८५.] इति षष्ठीसमासप्रतिषेधोऽव्ययसंज्ञाफलमिति चेत् ? न-तत्र समासकाण्डे बहुलाधिकारादेव सेत्स्यतीति । किञ्च, अव्ययीभाव इति महती संज्ञां यच्च कृतवान् प्राचार्यस्तज्ज्ञापयति-क्वचिदव्ययत्वमपीति, तेन चैत्रस्योपकुम्भमित्यत्र न समासः ।। ३० ।। चादयोऽसच्चे ॥ १.१.३१॥ __ सीदतोऽस्मिँल्लिङ्ग-सङ्खये इति सत्त्वम्, लिङ्ग-सङ्घयावद् द्रव्यम्, इदम्तदित्यादिसर्जनामव्यपदेश्यं विशेष्यमिति यावत् ; ततोऽन्यत्र वर्तमानाश्चादयः शब्दा अव्ययसंज्ञा भवन्ति, निपाता इत्यपि पूर्वेषाम् । वृक्षश्च प्लक्षश्च । असत्त्वे इति किम् ? यत्र षां सत्त्वरूपेऽनुकार्यादावर्थे व त्तिस्तत्र मा भूत्-च:20 समुच्चये। इव उपमायाम् । एवोऽवधारणे। च, अह, ह, वा, एव, एवम्, नूनम्, शश्वत्, सूपत्, कूपत्, कुवित्, नेत्, चेत्, नचेत्, चण , कच्चित्, यत्र, नह, नहि, हन्त, माकिस्, नकिस्, मा, माङ्, न, नन्, वाव, त्वाव, न्वाव, वावत्, त्वावत्, न्वावत्, त्यै, तुने, न्गै, नुन, रै, मै, श्रौषट्, वौषट्, वषट्, वट, वाट्, वेट, पाट्, प्याट्, फट, हुंफट्, छंवट, अध, आत्, स्वधा, स्वाहा, अलम्, चन,25 हि, अथ, ओम्, अथो, नो, नोहि, भोस्, भगोस्, अघोस्, अङ्घो, हंहो, हो, अहो, आहो, उताहो, हा, ही, हे, है, हये, अयि, अये, अररे, अङ्ग, रे, अरे, अवे, ननु, शुकम्, सुकम्, नुकम्, हिकम्, नहिकम्, ऊम्, हुम्, कुम्, उञ् सुन्, कम्, हम्, किम्, हिम्, अद्, कद्, यद्, तद्, इद्, चिद्, क्विद्, स्विद्, उत, बत, इव, तु, नु, यच्च, कच्चन, किमुत, किल, किङ्किल, किंस्वित्, उदस्वित्,30
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy