SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ २४ ] बृहद्वृत्ति-लवुन्याससंवलिते [पा० १. सू० २७.] यदाऽनुकार्यानुकरणयोः स्याद्वादाश्रयणेनाभेदविवक्षा तदाऽर्थवत्त्वाभावान्न भवति नामसंज्ञा; यथा-गवित्यमाहेति; यदा तु भेदविवक्षा तदाऽनुकार्येणार्थेनार्थवत्त्वाद् भवत्येव-पचतिमाह, चः समुच्चये, “नेर्विशः" [३. ३. २४.] "परावेर्जेः" [३. ३. २८.] इत्यादि । नामप्रदेशाः-"नाम सिदयव्यञ्जने" [१. १. २१.] इत्यादयः ।। २७ ।। 5 न्या० स०-अधातु०-उच्यते विशिष्टोऽर्थोऽनेनेति बाहुलकात् करणेऽपि ध्यणि वाक्यम्, कर्मणि तु प्रतीतमेव । अर्थो द्वधा-अभिधेयो द्योत्यश्च । तत्राभिधेयः . स्वार्थादिभेदात् पञ्चधा, द्योत्यश्च समुच्चयादिरिति । यद्वा चकारादिना द्योत्यस्यापि समुच्चयादेः समासादिनाऽभिधीयमानत्वादभिवेयत्वमस्तीत्याह-द्योत्यश्चेत्यादि-अभिधेय इति शेषः, न केवलं स्वार्थादिरभिवेयो द्योत्यश्च समुच्चयादिरभिवेय इति चार्थः । 10 समुच्चयादिरिति-प्रादिपदाद 'वा विकल्पादौ' 'एवोऽवधारणे' इत्यादि बोध्यम् । तथा द्योतकानां विशेषणं नास्ति, यथा-'घटश्च भव्यम्' इति । तथा चादीनां स्वार्थोऽपि धोत्यतया न वाचकतयेत्येकोऽप्यभिधेयो नास्ति । स्वरादीनां तु लिङ्गसंख्ये न स्तः । ननु 'प्रहन्' इत्यत्र विभक्त्यन्तद्वारेणेव नामत्वं न भविष्यति किं धातुवर्जनेन ? सत्यम्-तथापि, 'हन्ति' इत्यत्र धातुवर्जनाभावे विभक्त: प्राक्तनस्य 'हन्' इत्यस्य नामत्वे "नाम सिद्०"15 [ १. १. २१. ] इति व्यञ्जनद्वारा पदत्वे च नलोप: स्यादिति धातुवर्जनमिति। अथ 'वृक्षान्' इत्यत्र नकारविधानसामर्थ्यादेव नलूग न भविष्यति किं विभक्तिवर्जनेनेति ? सत्यम्-'कांस्कान्' इत्यादौ "शसोऽता०" [ १. ४. ४६. ] इति नविधानं चरितार्थमित्यत्र नलोपः स्याद् इति । ननु 'इत्यत्र विभक्त्यन्तत्वादेव नामत्वं न भविष्यति । किं वाक्यवर्जनेन ? सत्यम्-"प्रत्ययः प्रकृत्यादेः" [ ७. ४. ११५. ] इति परिभाषया20 ब्र धातोरेव विभक्त्यन्तत्वं न तु समग्रवाक्यस्य, ततो वाक्यस्य नामत्वे साधुर्धम ब्र ते इत्येवंरूपाद् वाक्याद् विभक्तावनिष्टरूपप्रसङ्ग इति । सपासादेभवत्येवेति -अन्यथा ह्यर्थवच्छब्दरूपस्य नामत्वे विधीयमानेऽर्थवत्समुदायरूपस्य वाक्यस्य प्रसङ्ग एव नास्ति किं वाक्यवर्जनेन ? ततश्च तदेव वाक्यवर्जनं बोधयति-समासादेः समदायस्य भवत्येवेति। नन पधातु-विभक्तीत्यत्र पर्युदासाश्रयणादर्थवत एव नामत्वं भविष्यति नार्थोऽर्थवदित्यनेन,25 सत्यम्-अर्थवदिति संज्ञिनिर्देशार्थम् । पर्यु दासाऽऽश्रयणे हि केन धर्मेण सादृश्यमाश्रीयत इत्यप्रतिपत्तिः स्यात, ततश्चानर्थकानामपि धर्मान्तरेण सदृशत्वे नामसंज्ञाप्रसङ्ग इत्याहअर्थवदिति। अव्युत्पत्तिपक्षाऽऽश्रयणे 'वन' इत्यादेरखण्डस्यैवार्थवत्त्वं न तु तदवयवस्य 'वन्' इत्यादेर्नान्तस्येति; व्युत्पत्तिपक्षे तु धात्वर्थेनार्थवत्तायामपि धातुद्वारेणव वर्जनसिद्धिरिति । ननु 'गौः' इति वक्तव्ये शक्तिवैकल्याद् 'गो' इति केनचिदुक्तम्, तत्समीपवर्ती च30 तदक्तमपरेण पृष्टः सन्ननकरोति, तदा तदनुकरणस्य नामसंज्ञा स्याद् वा नवेत्याहयदेत्यादि । अनुकार्येरणेति-वर्णावलीरूपेणेत्यर्थः ॥ २७॥
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy