________________
[पा० १. सू० २८-३०.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ २५
शिष्ठ द॥ १. १. २८॥
जस्-शसादेशः शिर्घट्संज्ञो भवति । पद्मानि तिष्ठन्ति, पद्मानि पश्य । घुटप्रदेशा:-"घुटि" [१. ४. ६८.] इत्यादयः ।। २८ ॥
पु-स्त्रियोः स्यमौजस् ॥ १. १. २६ ॥
औरिति प्रथमा-द्वितीयाद्विवचनयोरविशेषेण ग्रहणम् । सि अम् औ २ 5 जस् इत्येते प्रत्ययाः पुंलिङ्ग स्त्रीलिङ्ग च घुट्संज्ञा भवन्ति । राजा, राजानम्, राजानौ तिष्ठतः, राजानौ पश्य, राजानः । स्त्रियाम्-सीमा, सीमानम्, सीमानौ तिष्ठतः, पश्य वा, सीमानः । “नि दीर्घः" [१. ४. ८५.] इति दीर्घः । पुं-स्त्रियोरिति किम् ? सामनी, वेमनी; घुट्त्वाभावाद् दीर्घा न भवति । किं पुनः पुमान् स्त्री वा ? लिङ्गम् । किं पुनस्तत् ? अयम्, इयम्, 10 इदम् इति यतस्तत् पुमान् स्त्री नपुंसकम् इति लिङ्गम् । तच्चार्थधर्म इत्येके, शब्दधर्म इत्यन्ये, उभयथापि न दोषः ।। २६ ।।
न्या० स०-पुस्त्रियो:०-अलौकिकोऽय निर्देशः । अन्यथा पुमांश्च स्त्री चेति कृतेऽर्यत्वात्स्त्रीशब्दस्य प्रागनिपाते स्त्रियाः पुसो द्वन्द्वाच्च' [७. ३. ६६.] इति समासान्ते च स्त्रीपुसयोरिति स्यात् । अनेन चैतज्ज्ञाप्यते क्वचिदलौकिको निर्देशो भवतीति । स्यमौज-15 सिति । अत्र व्यतिक्रमनिर्देश एवावृत्यौकारद्यंग्रहणं साधयति । तथाहि अम्च प्रौश्च अमौ । ततः सिश्च अमौ च जस् चेति कृतेऽम्सहचरितस्य द्वितीयाद्विवचनस्य ग्रहः । प्रा त्या तु व्याख्याने औश्च जस् च औजस् । सिश्च अम् च प्रोजस्चेति कृते जस् साहचर्यात्प्रथमाद्विवचनस्य ग्रहः। एकशेषो वा क्रियते । प्रौश्च औश्च प्रावो । ततः सिश्च अम् च आवौ च जस् च तत्तथेति, इत्याह पौरिति ।
स्वरादयोऽव्ययम् ॥ १. १.३० ॥
स्वरादयः शब्दा अव्ययसंज्ञा भवन्ति । स्वः सुखयति, एहि जाये ! स्वा रोहाव, स्वः संजानीते, स्वः स्पृहयति, स्वरागच्छति । "छायेव या स्वर्जलधेर्जलेषु" । स्वर्नसति, अन्तर्यामि, अन्तर्नसति । 'अत्युच्चसौ, अत्युच्चसः' इत्यत्रोच्चैरतिक्रान्तो यस्तदभिधायकस्य पूर्वपदार्थप्रधानस्य समासस्य संबन्धी25 स्यादि!च्चैःशब्दस्य, तेन "अव्ययस्य" [३. २. ७.] इति लुप् न भवति, 'परमोच्चैः, परमनीचैः' इत्यत्र तु उत्तरपदार्थप्रधानत्वात् समासस्याव्यय
20