SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० २७.] श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ २३ न्या० स०–सविशेषण-पाख्यायते स्म क्रियाप्रधानत्वेन साध्यार्थाभिधायितया वा इत्याख्यातम्, तच्च त्याद्यन्तमिति । क्रियोपलक्षणं चैतत्, तेन 'देवदत्तेन शयितव्यम्' इत्याद्यपि वाक्यं भवति । साक्षादित्यादि-यत् क्रियायाः साधनस्य वा तदतदात्मनोऽतद्र पादव्यवधानेन व्यवच्छेदक क्वचित् तत् साक्षाद् विशेषणम्, यत् तद्विशेषणस्य विशेषणं तत् पारम्पर्येण । 'धर्म' इत्यादौ यत्र क्रियापदं कर्तरि तत्र कर्ता क्रियापदस्य समानाधिकरणं 5 विशेषणमन्यानि व्यधिकरणानि, कर्मणि तु क्रियापदे कर्म समानाधिकरणम् । साधु वो रक्षत्वित्यादौ साध्विति रक्षणादिक्रियायाः समानाधिकरणम्, रक्षत्वित्यादिक्रियापदस्य तु व्यधिकरण मिति । शालीनां ते इति-अत्रौदनस्य साक्षात् विशेषणस्य विशेषणत्वाच्छालीनामिति पारम्पर्येण विशेषणम् । शीलं ते स्वमिति-अत्रास्तीत्यादि क्रियापदं न प्रयुज्यते परं तस्याप्रयुज्यमानस्यापि स्वमिति समानाधिकरणम् । ननु शब्द-10 प्रयोगोऽर्थप्रतिपत्त्युपायः, तस्य चाप्रयुज्यमानस्यापि विशेषण-विशेष्यभावेऽतिप्रसङ्गः, अप्रयुज्यमानत्वाविशेषात् सर्वं सर्वस्य विशेषणं विशेष्यं च स्यात् । किञ्च, यद्यप्रयुज्यमानमपि शब्दरूपं विशेष्यं विशेषणं वा गमयेत् तदाऽनर्थकः सर्वत्र तत्प्रयोग इत्याह-अर्थात इत्यादि। लोकादेवेति-लोको हि साकाङक्षत्वे सति क्रियाभेदेऽप्येकवाक्यत्वं प्रतिपद्यत इति साकाङक्षत्वेऽपि क्रियाभेदे वाक्यभेदार्थ वचन मिति भावः। कुरु कुरु न इति-अत्र15 युगपद्वाक्यद्वयप्रयोग इति एकवाक्यत्वाभावान्नसादेशस्य न प्राप्तिरिति पराभिप्रायः ॥ २६ ॥ अधातुविभक्तिवाक्यमर्थवन्नाम ॥ १. १. २७ ॥ अर्थोऽभिधेयः-स्वार्थः, द्रव्यम्, लिङ्गम्, संख्या, शक्तिरिति, द्योत्यश्च समुच्चयादिः । तद्वच्छब्दरूपं धातुविभक्त्यन्त वाक्यजितं नामसंज्ञं भवति ।20 व क्षः, प्लक्षः, शुक्लः, कृष्णः, डित्थः, डवित्थः, स्वः, प्रातः, धवश्च खदिरश्च । धातु-विभक्तिवर्जनं किम् ? अहन्, व क्षान्, अयजन्; अत्र नामत्वाभावे "नाम्नो नोऽनह्नः" [२. १. ६१.] इति नलोपो न भवति । विभक्त्यन्तवर्जनाच्चाऽऽबादिप्रत्ययान्तानां नामसंज्ञा भवत्येव । प्राप्-अजा, बहुराजा । ङी-गौरी, कुमारी, डायनि-गाायणी, गौकक्ष्यायणी। ति-25 युवतिः । ऊ-ब्रह्मबन्धूः, करभोरू: । कृत्-कारकः, कर्ता, भिनत्तीति भिद्; एवं छित् । तद्धितः-प्रौपगवः, आक्षिकः । वाक्यवर्जनं किम् ? साधुर्धर्मं ब्रूते । अर्थवत्समुदायस्य वाक्यस्य नामसंज्ञाप्रतिषेधात् समासादेर्भवत्येव-चित्रगुः, राजपुरुषः, ईषदपरिसमाप्तो गुडो बहुगुडो द्राक्षा । अर्थवदिति किम् ? वनम्, धनम् ; नान्तस्यावधेर्मा भूत्, नामत्वे हि स्याद्युत्पत्तौ पदत्वान्नलोपः स्यात् ।30
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy