________________
२२ ]
बृह वृत्ति-लवुन्याससंवलिते
[पा० १. सू० २६.]
पदत्वप्रतिषेधेऽपि समुदायविभक्त्याश्रितं पदत्वमस्तीति कत्वं बभूवेति । वाक्-त्रक- च इति-अत्र वाक्शब्दापेक्षया त्वक्शब्दो वृत्त्यन्त इति परस्याऽऽशयः । त्वक्त्वचमिति-पत्र समासान्ते कृते वृत्तिरकारान्ता भवति; न च तत्र त्वगिति वृत्त्यन्तः, ततः “वृत्त्यन्तोऽसष" [ १. १ २५. ] इति पदत्वप्रतिषेधस्त्वचो न प्राप्नोति । समाधत्ते-उच्यत इत्यादिना । अयमर्थः-समासात् समासान्तो विधीयमानस्तस्यैवान्तत्वं व्याहन्ति, न तु तदवयवस्य त्वचः, 5 तस्य समासावयवत्वात्, नहि समुदायावयवोऽवयवस्यावयवो भवति । यद्वत्थं व्याख्यासमासशब्देन समासावयवोऽभिधीयते, ततः समासावयवात् त्वचः समासान्तो विधीयत इति भवत्वत्त्यन्तत्वं त्वचस्तथापि सित्येवेति नियमेन पदत्वं निवर्त्यत इति भावः । अथवा समासात् परः समासान्तो विधीयते, ततः स्यादे: पूर्वस्त्वच एव परो भवति, इति अस्त प्रवृत्त्यन्तत्वं त्वचः, तत्र च पदत्वप्राप्तिरेव नास्तीति कत्वाभाव इति । समासशब्दस्तू10 लक्ष्यवशात् क्वचित् समासावयवं क्वचित् समासं चाऽऽहेति । दधिसे गिति-सिञ्चतीति विच् [सेक्,] ततो दध्न: सेगित्येव कार्यम्, दधि सिञ्चतीति तु न, यत: 'सोपपदात् सिचो विज नेष्यते' इति न्यासः ॥ २५ ॥
सविशेषणमाख्यातं वाक्यम् ॥ १. १. २६ ॥
त्याद्यन्तं पदमाख्यातम् । साक्षात् पारम्पर्येण वा यान्याख्यातविशेषणानि15 तैः प्रयुज्यमानैरप्रयुज्यमानैर्वा सहितं प्रयुज्यमानमप्रयुज्यमानं वाऽऽख्यातं वाक्य- . संज्ञं भवति । धर्मो वो रक्षतु, धर्मो नो रक्षतु, साधु वो रक्षतु, साधु नो रक्षतु, उच्चैर्वो वदति, उच्चै! वदति, भोक्त त्वा याचते, भोक्त मा याचते, शालीनां ते प्रोदनं ददाति, शालीनां मे प्रोदनं ददाति, अप्रयुज्यमानविशेषणम्-लुनीहि३, पृथुकाँश्च खाद, पुनीहि ३, सक्तश्च पिब । अप्रयुज्यमान-20 माख्यातम्-शीलं ते स्वम्, शीलं मे स्वम् । अर्थात् प्रकरणाद् वाऽऽख्यातादेर्गतावप्रयोगः । लोकादेव वाक्यसिद्धौ साकाङ्क्षत्वेऽप्याख्यातभेदे वाक्यभेदार्थं वचनम्, आख्यातमित्यत्रैकत्वस्य विवक्षितत्वात् । तेन प्रोदनं पच, तव भविष्यति, मम भविष्यति; पच, तव भविष्यति, मम भविष्यति; ओदनम्, तव भविष्यति, मम भविष्यतीत्यादौ श्रूयमाणे गम्यमाने वाऽऽख्यातान्तरे भिन्नवाक्यत्वाद्25 वस्-नसादयो न भवन्ति । लौकिके हि वाक्येऽङ्गीक्रियमाणे आख्यातभेदेऽप्येकवाक्यत्वाद् वस्-नसादयः प्रसज्येरन्निति । कुरु कुरु नः कटमित्यादौ तु कृते द्विचनेऽर्थाभेदादेकमेवाख्यातमित्येकवाक्यत्वाद् वस्-नसादयो भवन्ति । वाक्यप्रदेशा:- "पदाद् युग्विभक्त्यैकवाक्ये वस्-नसौ बहुत्वे" [२. १. २१] इत्यादयः
30