SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० २५.] श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ २१ वृच्यन्तोऽस॥ १. १. २५ ॥ परार्थाभिधानं व त्तिः, तद्वाँश्च पदसमुदायः समासादिः, तस्या अन्तोऽवसानं पदसंज्ञो न भवति; 'असषे' सस्य षत्वे तु पदसंज्ञैव । परमदिवौ, श्वलिहौ, गोदुहौ, परमवाचौ, बहुदण्डिनौ। एषु पदत्वाभावादुत्व-ढत्वघत्व-कत्व-लुगादीनि न भवन्ति । वत्तिग्रहणं किम् ? चैत्रस्य कर्म । अन्त- 5 ग्रहणं किम् ? राजवाक्, अत्र नलोपो भवति । वाक्-त्वक्-स्र च इति त्रयाणां वत्तौ न द्वयोः पृथग्व त्तिरिति मध्यमस्य निषेधो न भवति । अथ 'वाक्त्वचम्' इत्यत्र समासान्ते सति व त्त्यन्तत्वाभावात् पदत्वं प्राप्नोति, तथा च कत्वं स्यात् उच्यते-समासात् समासान्तो विधीयत इति त्वचो व त्त्यन्तत्वम् । असष इति किम् ? सिञ्चतीति विच् सेक्, दध्नः सेक् दधिसेक्, दधिसेचौ । ईषदूनः10 सेक्, बहुसेक्, बहुसेचौ । अत्र पदसंज्ञायां पदादित्वात् सकारस्य “नाम्यन्तस्था०" [२. ३. १५.] इत्यादिना षत्वाभावः सिद्धः । अन्तर्नतिन्या विभक्त: स्थानिवद्भावेन पदत्वं प्राप्तमनेन निषिध्यते । न च सित्येवेति नियमेन तन्निवर्तयितुं शक्यम्, “प्रत्ययः प्रकृत्यादेः" [७. ४. ११५.] इति हि यस्मात् समुदायात् प्रत्ययविधानं तस्यैव पदत्वं नियमेन निवर्त्यते, न तु तदवयवस्येति15 ।। २५ ।। न्या० स०-वृत्त्यन्तः-वर्तनं वृत्तिः क्तिः, वर्तनव्यापारवतीत्यर्थः, वर्तनं तु अवयवार्थापेक्षया परस्य समुदायार्थस्य प्रतिपादनम् ; यद्वा 'वर्तिषीष्ट-परार्थमभिधेयाद्' इत्याशास्यमाना वृत्तिः, कर्तरि तिक्; यद्वा वर्तन्ते स्वार्थपरित्यागेन पदान्य त्रेति आधारे क्तौ वृत्तिः पदसमुदायादिरूपा। सा त्रेधा-समासवृत्तिः १ तद्धितान्तवृत्तिः २ नामधातु-20 वृत्तिश्चेति; 'राजपुरुषः, प्रोपगवः, पुत्रकाम्यति' इत्यादि । परार्थाभिधानमिति-अवयवार्थापेक्षया परोऽर्थः समुदायार्थः, यद्वा अवयवपदापेक्षया परोऽर्थः समुदायार्थः, यद्वा अवयवपदापेक्षया समुदायः परमदिवलक्षणः परस्तस्यार्थःतस्याभिधानम् । अनेकार्थत्वात् परार्थाभिधानेऽपि वृत्तिशब्दः । अवसानमिति-अवसीयतेऽस्मिन् इत्यवसानम् । लीढ इति लिहौ, क्विप्, शुनो लिहौ श्वलिहौ “षष्ठ्ययत्नाच्छेषे' [ ३. १. ७६. ] इति समासः, इति25 कर्तव्यम्, न तु श्वानं लीढ इति, यतस्तस्मिन् कृते *गतिकारक* इति क्विबन्तेन लिह, इत्यनेन समासे सति लिह, इत्यस्याविभक्त्यन्तत्वेन पदत्वप्राप्तिरेव नास्तीति । लुगादीनीति-पादिशब्दाद ढत्वे सत्यस्यैव डत्वम, धत्वे सति "गडदबादेः०" [२.१.७७.] इति दस्य धत्वम्, कत्वे सति गत्वम्, लुगभावे "हस्वान्ङणनो द्व" [१.३.२७.] इति द्वित्वं च न भवति । राजवागिति-अत्रान्तग्रहणात् पूर्वस्य पदत्वे सति नलोपः, तथाऽवयवाश्रित-30
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy