________________
२० ]
बृहद्वृत्ति-लयुन्याससंवलिते
[पा० १. सू० २३-२४.]
चर्मायते, पदत्वान्नलोपः । नमिति किम् ? वाच्यति । क्य इति किम् ? सामनि साधुः सामन्यः । एवं वेमन्यः । अयिति प्रतिषेधात् पूर्वेणाप्राप्ते वचनम् ॥ २२ ॥
न्या० स०-नं क्य०-'क्ये इति सामान्यनिर्देशेऽपि क्य-क्यपोर्नामाधिकारेण व्यावर्तितत्वाद् अन्यस्य निरनुबन्धस्याभावाद् उत्सृष्टानुबन्धस्य क्यमात्रस्य ग्रहण- 5 मित्याह-क्य इत्यादि । चर्मायतीति-चर्मणः प्रागतत्तत्त्वासंभवात् च्व्यर्थाभावे क्य न प्राप्नोतीति तद्वद्वत्तेश्चर्मन्शब्दात् प्रत्ययः, अचर्मवान् चर्मवान् भवतीति, यथा-निद्रायतीत्यादि । अयितीति-अन्तर्वतिन्या विभक्त्या “तदन्तं पदम्" [ १. १. २०. ] इति पदत्वं प्राप्तम्, तत् सित्येवेति नियमेनापोदितमपि 'व्यञ्जने' इत्यंशेन पुनः प्रसूतम्, ततः 'अय्' इति । प्रतिषेधेन प्रतिषिद्धमनेन प्रतिप्रसूयते ॥ २२ ।।
10 न स्तं मत्वर्थे ॥ १. १. २३ ॥
सकारान्तं तकारान्तं च नाम मत्वर्थे प्रत्यये परे पदसंज्ञं न भवति । यशस्वी। मतोरपि मत्वर्थाव्यभिचाराद् मत्वर्थशब्देन ग्रहणम् । पेचुष्मान्, विदुष्मान्, यशस्वान्, तडित्वान्, मरुत्वान्, विद्युत्वान् । स्तमिति । किम् ? तक्षवान्, राजवान् । मत्वर्थ इति किम् ? पयोभ्याम् । अय्व्यञ्जन15 इति प्राप्त प्रतिषेधोऽयम् ।। २३ ॥
न्या० स०-न स्त०-मतुर्मत्वर्थोऽर्थो यस्येति समानाधिकरणो बहुव्रीहिः, ' यथा-उष्ट्रो मुखमस्येत्युष्ट्रमुख इत्यत्र, नहि प्राणी प्राण्यन्तरस्य साक्षान्मुखं भवतीति सामर्थ्यात् सादृश्यप्रतीतिः, समग्रेण चोष्येण सह सादृश्याभावादुष्टशब्दोऽवयवे बर्तते, मुखेनैव च मुखसादृश्यं प्रसिद्धमिति सामर्थ्यान्मुखमिव मुखमस्येत्यर्थोऽवतिष्ठते; एवमिहापि मतुशब्दस्यार्थेन 20 सामानाधिकरण्यमनुपपद्यमानं मतुशब्दं मत्वर्थवृत्तिं गमयतीत्युक्तम्-मतोरपीति-मतुशब्दस्यापि मत्वर्थाव्यभिचाराद् मत्वर्थेन ग्रहणमिति। पेचुष्मानिति-"स्थानीवावर्णविधौ” [७. ४. १०६. ] इति न्यायेन अपदसंज्ञस्याऽऽदेशोऽप्यपदमित्युषादेशे कृते सन्तत्वाभावेऽप्यपदत्वात् "धुटस्तृतीयः” [ २. १. ७६. ] इति षस्य डत्वं न भवति ।। २३ ।।।
मनुनभोहिरो वति ॥ १. १. २४ ॥
मनुस् नभस् अङ्गिरस् इत्येतानि नामानि वति प्रत्यये परे पदसंज्ञानि न भवन्ति । मनुरिव मनुष्वत्, एवम्-नभस्वत्, अङ्गिरस्वत् । पदत्वाभावाद् रुर्न भवति, षत्वं तु भवति ।। २४ ।।
25