________________
५७४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू ५७.]
आकृतिग्रहणा जातिः, अत्रिलिङ्गा च यान्विता।
आजन्मनाशमर्थानां सामान्यमपरे विदुः ।। १ ।। अत्र प्रथमजातिलक्षणानुसारेण कुमारीभार्यः, किशोरीभार्य इति भवति, द्वितीयजातिलक्षणानुसारेण कुमारभार्यः, किशोरभार्य इति भवति, न हि कुमारत्वादि उत्पत्तेः प्रभृत्याविनाशमनुवर्तते । स्वाङ्गादिति किम् ? 5 पटुभार्यः । ङीरिति किम् ? सकेशभार्यः । अमानिनीति किम् ? दीर्घकेशमानिनी, कठमानिनी--असमासनिर्देशः सुखार्थः ।। ५६ ।।
न्या० स०--स्वाङान्डी०। शूद्रेति शीयते वर्जयति षट् कर्माणीति शूद्रः 'शदेरूच्च' ३६४ (उणादि) पूर्वत्र जातिलक्षणे उक्तऽपि अत्रैवंविधा जाति ह्य ति वैचित्र्यार्थमाह-प्राकृतिग्रहरणेति ततश्च प्राकृतिग्रहणा जातिरिति प्रथमा जातिः । अनया10 च कुमारीभार्यः किशोरोभार्य इति सिद्धम् । अत्रिलिङ्गा च यान्विता प्राजन्मनाशम
नामिति द्वितीया, केचित्तु आजन्मनाशमर्थानामन्विता इति प्राकृतिग्रहणा जातिरित्यस्य विशेषणं कुर्वन्ति, तन्मताभिप्रायेण कुमारभार्यः किशोरभार्य इत्येव भवति । न हि कुमारत्वादि उत्पत्तेः प्रभृति आविनाशमऽनुवर्तते ।। ३. २. ५६ ।। पुवत्कर्मधारये ॥३. २. ५७ ॥
15 परतः स्त्र्यनूङ् कर्मधारय समासे स्त्र्येकार्थे उत्तरपदे परे पुंवद्भवति, प्रतिषेधनिवृत्त्यर्थ प्रारम्भः । नाप्रियादौ [३. २. ५३.] इत्युक्त तत्रापि भवति, कल्याणी चासौ प्रिया च कल्याणप्रिया, एवं कल्याणमनोज्ञा, 'तद्धिताककोपान्त्यपूरण्याख्याः' [३. २. ५४.] इत्युक्त तत्रापि भवति,--मद्रिका चासौ भार्या च मद्रकभार्या, लाक्षिकबृहतिका, पाचकवृन्दारिका, कारक-20 वृन्दारिका, पञ्चमवृन्दारिका, षष्ठवृन्दारिका, दत्तवृन्दारिका, गुप्तवृन्दारिका, 'तद्धितः स्वरवृद्धिहेतुररक्तविकारे' [३. २. ५५.] इत्युक्त तत्रापि भवति, माथुरी चासौ वृन्दारिका च माथुरवृन्दारिका, स्रोग्घ्नवृन्दारिका, 'स्वाङ्गान्डीर्जातिश्चामानिनि' [३. २. ५६.] इत्युक्त तत्रापि भवति,--चन्द्रमुखी चासौ वृन्दारिका च चन्द्रमुखवृन्दारिका, दीर्घकेशवृन्दारिका, कठवृन्दारिका, बह वृच-25 ६." वृन्दारिका, वतण्डस्यापत्यं वातण्डयः, स्त्री चेत् वतण्डी, सा चासौ वृन्दारिका
च वातण्ड्यवृन्दारिका, गर्गस्यापत्यं गार्ग्यः स्त्री चेत् गार्गी, सा चासौ