________________
५६४ ]
बृह वृत्ति-लघुन्याससंवलिते
[पा० २. सू ४६-४८.]
इत्येतावादेशौ वा भवतः। दिवस्पृथिव्यौ, दिवःपृथिव्यौ, द्यावापृथिव्यौ । दिवः इति विसर्गान्तस्य निर्देशात् दिवस् इति सकारस्य रुत्वं न भवति ।। ४५ ।।
उषासोषसः ॥ ३. २. ४६ ॥
देवताद्वद्वे उत्तरपदे परे उषस्शब्दस्योषासा इत्ययमादेशो भवति । 5 उषश्च सूर्यश्च उषासासूर्यम्, उषासानक्तम्, उषासानक्त । केचित्तु सूर्यशब्दस्यापीच्छन्ति-सूर्यश्च सोमश्च उषासासोमौ ।। ४६ ।।
न्या० स०-उषासोषसः। उषः शब्दः प्रभातवाचको नपुसकः । संध्यावाचकस्तु स्त्रीक्लीबः ।। ३. २. ४६ ।।
10
मातरपितरं वा ॥ ३. २. ४७ ॥
मातृपितृशब्दयोः पूर्वोत्तरपदयोर्द्वन्द्व मातरपितरेति ऋकारस्य अर इति निपात्यते वा। माता च पिता च मातरपितरौ, मातरपितराभ्याम्, मातरपितरयोः, पक्षे-मातापितरौ, मातापितृभ्याम्, मातापित्रोः, एकशेषे तु पितरौ। शब्दरूपापेक्षो नपुंसकैकवचननिर्देश उत्तरपदस्य अरभावाभिव्यक्त्यर्थः । उत्तरपदस्यारं नेच्छन्त्यन्ये ।। ४७ ।।
. 15 न्या० स०--मातर०। अरभावाभिव्य इति अन्यथा मातरपितराविति कृते 'अङौं च' [ १. ४. ३६. ] इत्यरादेशोऽपि संभाव्येत ॥ ३. २. ४७ ।।
वर्चस्कादिष्ववस्करादयः॥ ३. २. ४८ ॥
कुत्सितं वर्को वर्चस्कम् तदादिष्वर्थेष्ववस्करादयः शब्दाः कृतशषसाद्युत्तरपदाः साधवो भवन्ति । वर्चस्केऽवस्करः, अवकीर्यतेऽवस्करः-20 अन्नमलम्, तत्संबन्धात्तद्देशोप्यवस्करः, अवकरोऽन्यः, अपस्करो रथाङ्गे, अपकरोऽन्यः । कुत्सिता तुम्बुरुः कुस्तुम्बुरुरौषधिजातो, तत्फलान्यपि कुस्तुम्बुरूणि, अन्यत्र कुस्तुम्बुरुस्तिन्बुकवृक्षः । अवरस्परा, अपरस्परा वा क्रियासातत्ये,-अवरस्पराः सार्था गच्छन्ति-सततं गच्छन्तीत्यर्थः, अन्यत्रावरपराः