SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० ४२-४५.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५६३ ई. षोमवरुणेऽग्नेः ॥ ३. २. ४२ ॥ वेदसहश्रुतावायुदेवतानां द्वन्द्व षोमवरुणयोरुत्तरपदयोरग्निशब्दस्य ईकारान्तादेशो भवति, षोमेति निर्देशादीकारसंनियोगे षत्वं च निपात्यते । अग्नीषोमौ, अग्नीवरुणौ। षोमवरुणेति किम् ? अग्नेन्द्रौ। देवताद्द्व इत्येव ? अग्निसोमो, मारणवकौ, ईकारसंनियोगे विधानादिह षत्वमपि न 5 भवति ।। ४२ ।। इवधिमत्यविष्णौ ॥ ३. २. ४३ ॥ विष्ण वजिते वृद्धिमत्युत्तरपदे परे देवताद्वद्वऽग्नेरिकारोऽन्तादेशो भवति, ईकाराकारयोरपवादः । अग्नीवरुणो देवते अस्या आग्निवारुणीमनड्वाहोमालभेत, अग्नीषोमौ देवताऽस्य आग्निसौमं कर्म, एवमाग्निमारुतम् ।10 वृद्धिमतीति किम् ? अग्नीवरुणौ, अग्नीमरुतौ। आग्नेन्द्र कर्म, 'पातो नेन्द्रवरुणस्य' [७. ४. २६.] इति वृद्धिनिषेधः। अविष्णाविति किम् ? अग्नाविष्णू देवतास्य अग्नावैष्णवं चरु निर्वपेत् ।। ४३ ॥ न्या० स०--इद्धि। अत्र बहिरङ्गाऽपि लुप् अन्तरङ्गानपि विधीन् बाघते इति न्यायात् तद्धितोत्पत्तिभाविन्या लुपा बहिरङ्गयाऽन्तरङ्गा अपि दीर्घत्वादि-15 विधयो बाध्यन्ते । न चात्र वाच्यं वाक्यविभक्त रपि तहि लुबभावस्तदभावे हि तद्धितोत्पत्तिर्न स्यात् नाम्नो विधीयमानत्वेन वाक्यात् तद्धितस्यानुपपत्तेरिति ।। ३. २. ४३ ।। दिवो द्यावा ॥ ३. २. ४४ ॥ देवताद्वद्वे दिवशब्दस्योत्तरपदे परे द्यावा इत्ययमादेशो भवति । द्यौश्च भूमिश्च द्यावाभूमी, द्यावाक्ष्मे, द्यावानक्त-नक्तशब्दोऽकारान्तोऽप्यस्त्य-20 नव्ययम् ।। ४४ ।। न्या० स०--दिवो द्यावा। द्यावाश्मे इति । पृषोदरादित्वादकारलोपे क्ष्मेति रूपम् ।। ३. २.४४ ।। दिवस्दिवः पृथिव्यां वा ॥ ३. २. ४५ ॥ दिवशब्दस्य पृथिव्यामुत्तरपदे परे देवताद्वन्द्व दिवस् इति दिव25
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy