________________
[पा० २. सू० ४८.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ५६५
सार्था गच्छन्ति-अवरे च अपरे च सकृदेव गच्छन्तीत्यर्थः । प्रास्पदं प्रतिष्ठायाम्-प्रतिष्ठा स्थानमात्मयापनापदम्, अन्यत्र आ ईषत् पदमा पदाद्वा आपदम्, आश्चर्यमद्भुते। आश्चर्य नीला द्यौः, अन्यत्र आश्चर्यं कर्म शोभनम्, प्रतिष्कशः सहाये-पुरोयायिनि दूते वा, ग्राममध्ये प्रवक्ष्यामि भव मे त्वं प्रतिष्कशः, अन्यत्र कशां प्रतिगतः प्रतिकशोऽश्वः, प्रस्कण्वहरिश्चन्द्रावृषौ, । 5 प्रगतं कण्वं पापमस्मादिति प्रस्कण्वः, हरिश्चन्द्र इवाह लादको यस्य हरिश्चन्द्रः, ऋषेरन्यत्र प्रकण्वो देशः, हरिचन्द्रो माणवकः, मस्करो वेण दण्डयोः । मा क्रियते प्रतिषिध्यतेऽनेनेति मस्करः, मकरशब्दस्य वाऽव्युत्पन्नस्य मस्कर इति रूपम्, अन्यत्र मकरो ग्राहः, मस्करी परिव्राजके-माकरणशीलो मस्करी, स ह्याह मा कृषत कर्माणि शान्तिर्वः श्रेयसीति, मकरिन्शब्दस्य वा मस्करीति10 रूपम्, अन्यत्र मकरीति, समुद्रः, कास्तीराजस्तुन्दे नगरे, ईषत्तीरमजस्येव तुन्दमस्येति व्युत्पत्तिमात्रम्, कास्तीरमजस्तुन्दं च नगरम्, अन्यत्र कातीरम्, अजतुन्दम्, कारस्करो वृक्षे-कार करोति किल कारस्करो वृक्षः, कारकरोऽन्यः, वनस्पतिः पुष्पं विना फलवति वृक्षे। सर्वो हरितकायो वनस्पतिरित्यन्ये, वनपतिरन्यः, , पारस्करो देशे, पारं करोति पारस्करो देशः, पारकरोऽन्यः,15 करस्करो गिरिवृक्षयोः, करं करोतीति करस्करो नाम गिरिः, करस्करो वृक्षः, करकरोऽन्यः, रथस्पा नद्याम् ।
. रथं पाति पिबति वा रथस्पा नाम नदी, रथपाऽन्या, किष्कुरुः प्रहरणेकस्य कुरुः किष्कुरुः नाम प्रहरणम्, किमो मकारस्य षकारादेशः, किष्कुः प्रमाणे-किमपीषत्यरिमेया कुर्भूमिरस्य किष्कुः वितस्तिहस्तो वा, किं20 करोतीति वा किष्कुः, करोतेर्डप्रत्ययः किमो मकारस्य च षकारः, कार्य करोतीति वा किष्कः, डुप्रत्ययः कार्यशब्दस्य च किष्भावः, किष्किन्ध इति गुहापर्वतयोः-किमप्यन्तर्दधाति किष्किन्धा नाम गहा, किमो द्विर्वचनं पूर्वस्य च मकारस्य षकारः, किं किं दधाति किष्किन्धः पर्वतः, पास्कथं नगरे, आहृताः कथा अस्मिन्नित्यास्कथं नाम नगरम्, तस्करश्चौरे-तत् करोति तस्करश्चौरः,25 बृहस्पतिर्देवतायाम्, बृहतां पतिः बृहन् पतिरिति वा बृहस्पतिः, उभयत्र तकारस्य सकारः, अन्यत्र तत्करः बृहत्पतिः, प्रायश्चित्तप्रायश्चित्तो प्रतीचार