________________
बृहद्वृत्ति - लघुन्याससंवलिते
[ पा० १. सू० १६१.]
इति श्रर्थग्राहिणी श्रद्धा शब्दग्राहिणी मेघा । श्रद्धामूलत्वादभिप्रेतार्थसिद्धेरर्च्यत्वम् । दीक्षातपसी इत्यादिषु तपसो लघ्वक्षरत्वेऽपि दीक्षा श्रद्धामेधानां बहूपका रत्वान्मूलभूतत्वाच्चाचितत्वात् परत्वात् पूर्व्वनिपातः । मातापितराविति अनुभूतगर्भादिक्लेशत्वात् पितृतो माताभ्यर्हिता । एवं स्त्रीप्रधानत्वाद विवाहस्य वराद्वधूरिति एवं रुद्रादावर्च्यत्वमूह्यम् । अध्येतृवेदिताराविति अत्र स्वरादित्वमस्ति न त्वदन्तत्वमित्यनियमः । एकस्यैव यथा- 5 प्राप्तमिति दुन्दुभिशब्दादिदन्तात् परत्वादल्पस्वरत्वात् शङ्खवीरणाशब्दयोर्युगपत्पूर्व्वनिपातप्राप्तावेक ग्रहरणादेकस्यैव क्रमेण पूर्वनिपातः । शेषारणां त्विति शङ्खवीरणाशब्दयोरिव युगपत् पूर्वनिपातप्राप्तौ एकस्यैव पूर्वनिपातः, दुन्दुभिरथादीनां तु कामचार इत्यर्थः, एकस्यैवेत्युक्तेऽपि दुन्दुभिरथादीनां न पूर्व्वनिपातः शब्दस्पर्द्धपरत्वात् । तथाहि दुन्दुभिशब्दोऽसखीदुत् शंखवीरगाशब्दौ तु अल्पस्वराविति । एवमश्वरथेन्द्रा इत्यत्राऽपि 1.0 रथशब्दो लघ्वक्षरः, अश्वेन्द्रशब्दौ तु स्वराद्यदन्तौ परौ इति तयोः पूर्वमेव पूर्व्वनिपातो न तु रथस्य ।
५४२ ]
एवं 15
शङ्खदुन्दुभिवोरणा इति 'प्राणितूर्याङ्गाणाम्' [ ३. १. १३७ ] इति बहुवचनं क्वचिदेकत्वविधेरनित्यार्थं । तेनात्रैकत्वाभावः, माङ्गल्यवाचकत्वेन शङ खशब्दस्य विवक्षत्वात् स्वैरित्यभावाद् वा । यतः तूर्याङ्गस्य तूर्याङ्ग ेण स्वत्वं भवतीति । मृदङ्गशङ्खपरणवा इति । अथवा शङ्खदुन्दुभिवीरणा: मृदङ्गशङ्खपरणवा इति शङ्खादोनां तूर्याङ्गत्वादेकवद्भावः कुतो न भवतीति ? उच्यते, अत्र शङ्खादिशब्देन शङ्खादिसमुदायस्याभिधानात् तस्य चातूर्याङ्गत्वादजातित्वाच्च नैकवद्भावः, उत्पलस्त्वाह तूर्याङ्गता शङ्खादिवादकानां न तु शङ्खादीनामिति तूर्याङ्गत्वादत्रैकवद्भावो यः प्राप्नोति स नाशङ्कनीयः, अत एव 'प्राणितूर्याङ्गाणाम्' [ ३.१.१३७. ] इत्यत्र पूर्वैर्मादङ्गिक- 20 पाणविकं वीणावादक परिवादकमित्येवोदाह्रियते, न तु भेरीमृदङ्गमित्यादि । तदा तु प्राणिरूपं तूर्याङ्ग प्राणितूर्याङ्गमिति विग्रहः ।। ३. १. १६० ।।
मासवर्णभ्रात्र नुपूर्वम् ॥। ३. १. १६१ ॥
मासवाचि वर्णवाचि भ्रातृवाचि च शब्दरूपं द्वन्द्व समासे अनुपूर्वं यद्यत्पूर्वं तत्तत्पूर्वं निपतति, अनुग्रहणादेकमिति निवृत्तम् । मास - फाल्गुनचैत्रौ, 25 वैशाखज्येष्ठौ, वर्ण-ब्राह्मणक्षत्त्रियौ, क्षत्रियवैश्यौ, वैश्यशूद्रौ, ब्राह्मणक्षत्त्रियविशः, ब्राह्मणक्षत्त्रियविट्शूद्राः, भ्रातृ - बलदेववासुदेवौ युधिष्ठिरभीमार्जुनाः ।। १६१ ।।
न्या० स० -- मासवर० । मासश्च वर्णश्च भ्राता चेति समाहारद्वन्द्वः । अनुपूर्वमिति पदार्थानतिवृत्तौ 'योग्यतावीप्सा' [ ३.१.४० ] इति श्रव्ययीभावः 130