________________
[ पा० १. सू० १६२ - १६३.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५४३
फाल्गुन चैत्राविति फल्गुनशब्दा: गौरादित्वात् । ङयां फल्गुनीभिश्चन्द्रयुक्ताभिर्युक्ता पौर्णमासी 'चन्द्रयुक्तात्' [ ६. २. ६. ] इत्यण् । अप्रयुक्तकालद्वारेण लुप् प्राप्नोति । चैत्र कात्तिकी फाल्गुनीति निर्देशात् लुप् न भवति, ततः फाल्गुनी पौर्णमासी प्रस्येति विग्रहे 'सास्य पौर्णमासी' [ ६. २. ६८. ] इत्यण् । चित्राभिश्चन्द्रयुक्ताभिर्युक्ता पौर्णमासी चैत्री चन्द्रयुक्तादण् । तदनु चैत्री पौर्णमासी अस्य 'सास्य पौर्णमासी' [६. २. ९८.] 5 इत्यण् । 'अववर्णस्य' [ ७. ४. ६८ ] इति ङीलुप्, विशाखाभिर्युक्ता पौर्णमासी, अण्, चैत्रीकात्तिकीत्युपलक्षणात् लुबत्राऽपि न भवति । ब्राह्मणक्षत्रियाविति अत्रानियमः प्राप्तः । क्षत्रियवैश्यावित्यत्र त्वल्पस्वरत्वाद् वैश्यशब्दस्य पूर्व्वनिपातः प्राप्तः । वैश्यशूद्रावित्यत्र अप्यनियमः ।
ब्राह्मणक्षत्रियविट्शूद्रा इत्यत्र त्वल्पस्वरत्वाद् विशः पूर्व्वनिपाते प्राप्तेऽनेन 10 ब्राह्मणादीनां मनुपूर्व्वं पूर्व्वनिपातः, अत्र अनुपूर्व्यं च जन्मकृतं यदाह
मुखतो ब्राह्मणा जाता, बाहुभ्यां क्षत्रियाः स्मृताः । ऊरुभ्यां तु विशः प्रोक्ताः पद्भ्यां शूद्रो अजायत ।। १ ।। न चात्रायत्वात् पूर्वनिपातः सिद्ध्यतीति वाच्यम् । निन्दितस्याऽपि ब्राह्मणादेः संभवादिति । बलदेववासुदेवाविति भ्रातृद्वन्द्व नियमे सति इष्टपूर्वनिपाते वा प्राप्ते 115 युधिष्ठिरभीमार्जुना इति प्रत्राऽपि जन्मकृतमेवानुपूर्व्यम् ।। ३. १. १६१ ।
भतु तुल्यस्वरम् ॥ ३. १. १६२ ॥
भं नक्षत्त्रम्, तद्वाचि ऋतुवाचि च तुल्यसंख्यस्वरं द्वंद्व समासेऽनुपूर्वं पूर्वं निपतति । भ - कृत्तिकारौहिण्यः, अश्विनीभरणीकृत्तिकाः, मृगशिरः पुनर्वसु, ऋतुः - हेमन्तशिशिरौ, शिशिरवसन्तौ, हेमन्तशिशिरवसन्ताः । तुल्यस्वरमिति 20 किम् ? आर्द्रामृगशिरसी, पुष्यपुनर्वसू, तिष्यपुनर्वसू ग्रीष्मवसन्तौ ।। १६२ ।।
न्या० स०-- - भर्तु तुल्य० । श्रत्राऽपि नक्षत्राणामृतूनां चानुपूर्व्यं लोकप्रसिद्ध्यैव वेदितव्यम् । मृगशिरःपुनर्वसु इति प्रत्रोदन्तत्वात् पुनर्वसुशब्दस्य पूर्वनिपातः प्राप्तः । हेमन्त शिशिराविति लघ्वक्षरत्वाद्धि शिशिरशब्दस्य प्राप्त: ।। ३. १. १६२. ।।
संख्या समासे ।। ३. १. १६३ ।।
सर्वा संख्या प्रथमोक्तेत्यनियमे आनुपूर्व्याः संख्यायाः पूर्वनिपातार्थं वचनम्, समासमात्रे संख्यावाचिनामनुपूर्वं पूर्वं निपतति । बहुव्रीहौ - द्वौ वा यो वा द्वित्राः, एवं त्रिचतुराः, पञ्चषाः, द्विर्दश द्विदशा, एवं त्रिदशाः,
25