SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० १६०.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५४१ लध्वक्षरासरखीद्वत्स्वराद्यदल्पस्वराय॑मेकम् ॥३. १. १६० ॥ पृथग्योगाद्वति निवृत्तम्, लघ्वक्षरं सखिजितेकारोकारान्तं स्वराद्यकारान्तमल्पस्वरमय॑वाचि च शब्दरूपं द्वन्द्व समासे पूर्व निपतति, यत्र चानेकसंभवस्तत्रैकमेव । लघ्वक्षर-शरसीर्यम्, तृणकाष्ठम् । तिलमाषम् । 5 शैलौ-मलयदर्दुरौ, असखोदुत्, अग्नीषोमो, अग्नीधूमम्, पतिसुतौ, वायुतोयम्, स्वादुतिक्तौ । सखिवर्जनं किम् ? सुतसखायौ, सखिसुतौ,-'ग्रहणवता नाम्ना न तदन्तविधिः' इति तदन्तस्य प्रतिषेधो न भवति-बहुसखिबहुधनौ, स्पर्धे परमेव, व्रीहियवौ। असखीदुदित्यैकपद्यादिदुतोः स्पर्धे कामचारः-पतिवसू, वसुपती। स्वराद्यत्-अस्त्रशस्त्रम्, इन्द्रचन्द्रौ, उष्ट्रमेषम्, अश्वरथम्, ऋश्य-10 रोहितौ । स्पर्धे परमेव-उष्ट्रखरम्, उष्ट्रशशम्, इन्द्रवायू, इन्द्राविष्ण , अर्केन्दू, अल्पस्वर-प्लक्षन्यग्रोधौ, स्पर्धे परमेव-धवखदिरौ, वागग्नी, वाग्वायू, वागथौं, धवाश्वकरणौं । अर्य-श्रद्धामेधे, स्पर्धे परम्-दीक्षातपसी, श्रद्धातपसी, मेधातपसी, मातापितरौ, वधूवरो, रुद्राग्नी, रुद्रन्द्रौ, वासुदेवार्जुनौ, लघ्वादिग्रहणं किम् ? 15 कुक्कुटमयूरो, मयूरकुक्कुटौ, अध्येतृवेदितारौ, वेदित्रध्येतारौ, अश्ववृक्षौ, वृक्षाश्वौ । एकमिति किम् ? युगपदनेकस्य पूर्वनिपाते प्राप्ते एकस्यैव यथाप्राप्तं पूर्व निपातः शेषाणां तु कामचार इति प्रदर्शनार्थम्-शंखदुन्दुभिवीणाः, वीणादुन्दुभिशंखाः, शंखवीणादुन्दुभयः, अश्वरथेन्द्राः, इन्द्राश्वरथाः, इन्द्ररथाश्वाः, दुन्दुभिशंखवीणा इति रथेन्द्राश्वा इति च न भवति । कथं धनपति-20 रामकेशवाः मृदङ्गशंखपणवाः, रामशंखशब्दयोरुत्तराभ्यां समासे सति पूर्वेण समासः । द्वन्द्व इत्येव ? विस्पष्टं पटुः विस्पष्टपटुः ।। १६० ।। न्या० स०--लघ्वक्षरा०। अत्र अक्षरशब्देन स्वरोऽभिधीयते । शरसीर्यमिति पाठः, शरशीर्ष मिति तु पाठे 'प्रारिणतूर्य' [ ३. १. १३७. ] इति स्वैरभावात् समाहाराप्राप्तिः । ग्रहणवतेति सत्यपि 'विशेषणमन्तः' [७. ४. ११३. ] इति न्याय इति शेषः ।25 अस्त्रशस्त्रमिति अत्र अस्त्रशब्देन सामान्यधनुरुच्यते, शस्त्रशब्देन सामान्यमायुधं ततः 'समानामर्थन' [३. १. ११८.] इति नैकशेषः, अप्राणिजातित्वादेकवद्भावः । श्रद्धामेधे
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy