________________
[पा० १ सू० १७.] श्री सिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
वर्ग्याः । ईषत्स्पृष्टं करणमन्तस्थानाम् । ईषद्विवृतं करणमूष्मणाम् । विवृतं करणं स्वराणाम्, ‘ऊष्मणां च' इत्यन्ये, ऊष्माणः श ष स हाः । स्वरेषु ए प्रो विव ततरौ ताभ्यामपि ऐ-प्रौ, ताभ्यामप्यवर्णः, 'प्रकारः संवृतः' इत्यन्ये । तत्र त्रयोऽकारा उदात्ताऽनुदात्तस्वरिताः, प्रत्येकं सानुनासिक - निरनुनासिकभेदात् षट्, एवं दीर्घ- प्लुताविति श्रष्टादश भेदा प्रवर्णस्य ते सर्वे कण्ठस्थाना 5 विवत करणाः परस्परं स्वाः । एवमिवर्णास्तावन्तस्तालव्या विवृतकरणाः
स्वा: ।
[ १५
उवर्णा प्रोष्ठ्या विवृ तकररणाः स्वाः । ऋवरर्णा मूर्धन्या विवृ तकरणाः स्वाः । लृवर्णा दन्त्या विवृ तकरणाः स्वाः, 'लवर्णस्य दीर्घा न सन्तीति द्वादश' इत्यन्ये । संध्यक्षराणां ह्रस्वा न सन्तीति तानि प्रत्येकं द्वादशभेदानि; तत्र - 10 एकारास्तालव्या विवृततराः स्वाः, ऐकारास्तालव्या प्रतिविवृततराः स्वाः, ओकारा श्रोष्ठ्या विव ततराः स्वाः, प्रौकारा प्रोष्ठ्या प्रतिविव ततराः स्वाः । वर्ग्याः पञ्च पञ्च परस्परं स्वाः । य-ल-वानामनुनासिकोऽननुनासिकश्च द्वौ भेदौ परस्परं स्वौ । रेफोष्मणां तु अतुल्यस्थानाऽऽस्यप्रयत्नत्वात् स्वा न भवन्ति । प्रास्यग्रहणं बाह्यप्रयत्ननिव त्त्यर्थम्, ते हि "प्रासन्नः " [७. ४. १२०.]15 इत्यत्रैवोपयुज्यन्ते, न स्वसंज्ञायाम्; के पुनस्ते ? विवारसंवारौ श्वास-नादौ घोषवदघोषता अल्पप्रारण - महाप्राणता उदात्तोऽनुदात्तः स्वरितश्चेत्येकादश । कथं पुनरेते प्रास्याद् बाह्याः स्पृष्टतादयस्तु प्रान्तराः ? उच्यते - वायुना कोष्ठेहिन्यमानेऽमीषां प्रादुर्भावात् स्पृष्टतादीनां तु कण्ठादिस्थानाभिघाते भावात् । तथा चाऽऽपिशलिः शिक्षामधीते - " नाभिप्रदेशात् प्रयत्नप्रेरितः प्राणो नाम 20 वायुरूर्ध्वमाक्रामन्नुरः प्रभृतीनां स्थानानामन्यतमस्मिन् स्थाने प्रयत्नेन विधार्यते, स विधार्यमाणः स्थानमभिहन्ति तस्मात् स्थानाभिघाताद् ध्वनिरुत्पद्यते आकाशे, सा वर्णश्रुतिः, स वर्णस्याऽऽत्मलाभः " । तत्र वर्णध्व नाव त्पद्यमाने यदा स्थान-करण-प्रयत्नाः परस्परं स्पृशन्ति सा स्पृष्टता, यदेषत् स्पृशन्ति सेषत्स्पृष्टता, यदा सामीप्येन स्पृशन्ति सा संवतता, दूरेण यदा स्पृशन्ति सा25 विवृतता; एषोऽन्तः - प्रयत्नः । स इदानीं प्राणो नाम वायुरूर्ध्व माक्रामन् मूर्ध्नि प्रतिहतो निवृत्तः कोष्ठमभिहन्ति तत्र कोष्ठे ऽभिहन्यमाने कण्ठबिलस्य विवृतत्वाद् विवारः संव तत्वात् संवारः । तत्र यदा कण्ठबिलं विवृतं भवति तदा श्वासो जायते, संवते तु नादः, तावनुप्रदानमाचक्षते; प्रन्ये तु ब्रुवते - अनुप्रदानमनुस्वानो घण्टादिनिर्ह्रादिवद्' इति । तत्र यदा स्थान-करणाभिघातजे 30 ध्वनौ नादोऽनुप्रदीयते तदा नादध्वनिसंसर्गाद् घोषो जायते, यदा तु श्वासोऽप्रदीयते तदा श्वासध्वनिसंसर्गादघोषो जायते ।