SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्ति-लवुन्याससंवलिते [पा० १. सू० १७.] र्देशकाल-लिपिभेदेऽपि रूपाभेदाइ दृष्टान्तमाह-वज्राकृतिरिति-वज्रस्येव प्राकृतिर्यस्य स तथा, गजकुम्भयोरिवाकृतिर्यस्य सोऽपि तथा । ककार-पकारौ चानमो: परदेशस्थावुच्चार्येते, सर्वत्र परसंबद्धावेवैतौ भवतः, न स्वतन्त्रौ, नापि पूर्वसंबद्धावनुस्वारवदिति । रेफादेशत्वात् कख-पफसंनिधावेव तयोः प्रयोगादल्पविषयत्वम्, अत एव सत्यपि संज्ञिसामानाधिकरण्येऽल्पीयस्त्वज्ञापनाय शिडित्येकवचनेन निर्देशः कृतः । अथ कथमनयोर्वर्णत्वं वर्णसमाम्नाये 5 पाठाभावात् ? सत्यम्-रेफस्य वर्णत्वात् तयोश्च रेफादेशत्वाद् वर्णत्वसिद्धिः । न च वर्णाऽऽदेशत्वेन लोपस्यापि वर्णत्वमाशङ्कनीयम्, तस्याभावरूपत्वात्, न चाभावो भावस्याऽऽश्रयो भवितुमर्हति अतिप्रसंगात, अयमेवार्थो बहुवचनेन सूच्यते, अनुवादकत्वेन तस्य साधकत्वाभावादित्याह-बहुवचनमिति । ननुक)(पयोर्व्यञ्जनसंज्ञाऽपि पूर्वेषामस्ति तत् कथं तैः सह न विरोधः ? उच्यते-रेफस्थानित्वेन व्यञ्जनसंज्ञाऽपीति न विरोधः ।। १६ ।। 10 तुल्यस्थानास्यप्रयत्नः स्वः॥ १. १. १७ ॥ यत्र पुद्गलस्कन्धस्य वर्णभावापत्तिस्तत् स्थानम्, कण्ठादि । यदाहुः-- "अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च" ॥४॥ [पाणिनीयशिक्षा, श्लो० १३.] 15 अस्यत्यनेन वर्णानित्यास्यम्, अोष्ठात् प्रभृति प्राक् काकलकसंज्ञकात् कण्ठमणेः । अस्ये प्रयत्न प्रास्यप्रयत्नः, प्रान्तरः संरम्भः । स चतुर्धास्पृष्टता १, ईषत्स्पृष्टता २, विव तता ३, ईषद्विव तता ४ । तुल्यौ वर्णान्तरेण . सदृशौ स्थानाऽऽस्यप्रयत्नौ यस्य स वर्णस्तं प्रति स्वसंज्ञो भवति । करणं तु जिह्वामूलमध्याग्रोपाग्ररूपं स्थानाऽऽस्यप्रयत्नतुल्यत्वे सति नाऽतुल्यं भवतीति20 पृथग् नोक्तम् । तत्र स्थानम्-अवर्ण-हविसर्ग-कवर्गाः कण्ठयाः । 'सनमुखस्थानमवर्णम्, ह-विसर्गाव रस्यौ, कवर्गो जिह्वामूलीयः' इत्यन्ये । इवर्ण-चवर्गयशास्तालव्याः। उवर्ण-पवर्गोपध्मानीया प्रोष्ठयाः । ऋवर्णटवर्ग-र-षा मूर्धन्याः, 'रेफो दन्तमूलः' इत्येके । लुवर्णतवर्ग-ल-सा दन्त्याः । ए-ऐ तालव्यौ, 'कण्ठय-तालव्यौ' इत्यन्ये । प्रो-ौ प्रोष्ठ्यो, 'कण्ठयोष्ठयौ' इत्यन्ये । वो25 दन्त्यौष्ठयः, 'सृक्कस्थानः' इत्यन्ये । जिह्वामूलीयो जिह्वयः, 'कण्ठयः' इत्यन्ये । नासिक्योऽनुस्वारः, 'कण्ठय-नासिक्यः' इत्यन्ये । ङ-अ-ण-न-माः स्वस्थान-नासिकास्थानाः । अथाऽऽस्यप्रयत्नः-स्पृष्टं करणं स्पर्शानाम्, स्पर्शा १. 'इत्येके' प्रा।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy